________________
सूक्ष्मा बादराश्च निगोदजीया अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः । अपर्यवसितत्वं च “सिझंति जत्तिया किर०" इत्यादिना सिद्धम् , तथा सांव्यवहारिका जीवाः सिध्यन्येव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तसमयपरिमाणत्वेन परिमितत्वाद् । व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया वाच्या इति ।
ननु “ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा सूक्ष्माः निगोद एवान्त्याः, तेभ्योऽन्ये व्यवहारिणः।" इति योगशास्त्रवृत्तिवचनाद्धादरनिगोदजीवाना व्यवहारित्वसिद्धेः कथमव्यवहारित्वमिति चेत् । न, तत्र 'सूक्ष्मनिगोदा एवान्त्याः' इति पाठस्थापि दर्शनात् तत्र सूक्ष्माश्च निगोदाश्चतीतरेतरद्वन्द्वकरणेऽसंगतिगन्धस्याप्यभावाद् । सूक्ष्मप्रथिव्यादिजीवानां चाव्यवहारित्वं प्रज्ञापनावृत्त्यभिप्रायेण स्फुटमेव प्रतीयते, लोकदृष्टिपथमागता. नामेव पृथिव्यादिजीवानां व्यवहारित्वभणनाद् , अन्यथा 'प्रत्येकशरीरिणो व्यावहारिकाः' इत्येव वृत्तिकृदवक्ष्यत् । यच्च केवलं निगोदेभ्य उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते इत्यादि भणितम् , तत्सूक्ष्मपृथिव्यादिजीवानामसंख्येयत्वेनाल्पत्वाद् अवश्यभाविव्यवहारित्वाद्वाऽविवक्षणादिति संभाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति । एवं चासाव्यवहारिका जीवाः सूक्ष्मपृथिव्यादिषु निगोदेषु च सर्वकालं गत्यागतीः कुर्वन्तीति संपन्नम् । इत्थं च तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्त्य शेषजीवेषूत्पद्यन्ते पृथिव्यादिविविधव्यवहारयोगात्सांव्यवहारिकाः। ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते तथाविधव्यवहारातीतत्वादसांव्यवहारिका इति । प्रवचनसारोद्धारवृत्तावपि “ अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः” इत्यत्र सूक्ष्मा पृथिव्यादयश्चत्वारो निगोदाश्च यादरसाधारणवनस्पतयः, न विद्यते आदिर्येषां तेऽनादयःअप्राप्तव्यवहारराशय इत्यर्थः । तथा च सूक्ष्माश्च निगोदजीवाश्चेति द्वन्द्वः, अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति कर्मधारयः, इति समासविधिद्रष्टव्यः । सर्वत्रापि कर्मधारयकरणे बादरनिगोदजीवानां व्यवहारित्वसंपत्तायुक्तागमवाधप्रसङ्गादिति चेत् । उच्यते-एवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभन्यानामव्यावहारिकत्वं व्यवस्थाप्यते, ताकि व्यावहारिकलक्षणयोगादुत परिभाषान्तराश्रयणात् १ नायो लोकन्यव