________________
३२
हारविषयः, प्रत्येकशरीरवत्त्वादिस्तल्लक्षणस्याभव्येष्वपि सत्त्वादनन्त
द्रव्य क्रियाग्रहणपरित्यागवतां व्यावहारिकत्वस्योपदेशपदप्रसिद्धत्वाच्च । तथा च तद्ग्रन्थः
" 'जं दव्वलिंगकिरियाणंतातीया भवंमि समलाबि । सव्वेसि पाएणं ण य तत्थवि जायमेअंति ॥ "
तेषामव्यावहारिकराशिविनिर्गतत्वेन
1
जमित्यादि । यद् यस्माद्रव्यलिङ्गक्रियाः पूजाद्यभिलाषेणः। व्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्रेष्टाः, किम् ? इत्याह- अनन्ता अनन्तनामकसंख्याविशेषानुगता व्यतिक्रान्ता भवे संसारे, सकला अपि - तथाविधसामग्रीवशात्परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम् ? इत्याह-न च - नैव तत्रापि तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतद्-धर्मबीजमित्यादि ॥
95
अथ पृथिव्यादिव्यवहारयोगेन तेषां व्यावहारिकत्वेऽप्यावलिका - संख्येयभागपुद्गलपरावर्ताधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्रीयते इति द्वितीयः पक्षः परिगृह्यते इति चेत्, परिगृह्यतां यदि बहुश्रुताः प्रमाणयन्ति, नैवमस्माकं काऽपि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिध्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धेः । नहि परिभाषा वस्तुस्वरूपं त्याजयतीति । एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रेण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेद्धमशक्यत्वात् | पृथिव्यादिविविधव्यवहार योगित्वलक्षणस्य तस्य प्राप्तसूक्ष्मनिगोदेतरत्वपर्यवसितस्यानुगतस्यानादिसुक्ष्मनिगोदेतरसर्वजीववृत्तित्वात्। चक्षुग्रह्यशरीरत्वरूपलक्षणं न तु लक्षणमित्यावयोः समानम्, अन्यथाऽस्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिवं तवं मते बादरनिगोदेऽतिव्याप्तेरपि प्रसङ्गात् । किं च - प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्रतीयते । ये पुनरनादिकालादारभ्यनिगोदा
यद्द्रव्यलिङ्गक्रिया अनन्ताऽतीता भवे सकलाऽपि • सर्वेषां प्रायेण न च तत्रापि जातमेतदिति ॥