SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कमनिर्जरामाश्रित्य तुल्याः, धर्मपृच्छनोत्पनसंशास्तेभ्योऽसंख्येयगुणनिर्जरकर, खतोऽपि पिपृच्छिषुः सत्साधुजिगमिषुः, तस्मादपि क्रियाऽऽविष्टः प्रतिषद्यमानः, तस्मादपि पूर्वप्रतिपनोऽसंख्येयगुणनिर्जरकः इति" सम्यक्त्वोत्पत्तिापातेति । यदि चैतदयचनवलादेव चारित्रादाथिय सम्यक्त्वेऽप्यभिमुस्थप्रतिपद्यमान प्रतिपनत्रयस्यैव गुणश्रेणीसभावात् सम्यक्त्वानभिमुखमिथ्यादृष्टेने मार्गानुसारित्वमित्याग्रहस्तदा संगम-नयसारादेरपि मा. र्गानुसारित्वं न स्यात् । न हि भवान्तरव्यवधानेऽपि गुणश्रेण्यनुकूलमाभिमुख्यं संभवतीति सम्यक्त्वादिनियतगुणश्रेणि विनाऽपि मिथ्यारशामप्यल्पमोहमलानां संसारप्रतनुताकारिणी दयादानादिगुणपरिणतिर्मार्गानुसारितानिबन्धनं भवतीति प्रतिपत्तव्यम् । अत एय " भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । पर्द्धमानगुणः प्रायो ह्यपुनर्बन्धको मतः ।।" इति योगविन्दानुक्तम्, । अपुनर्थन्धकश्च प्रथमगुणस्थानावस्थाविशेष इति तत्र सर्वथा गुणप्रतिक्षेपवचनं निर्गुणानामेति मन्तज्यम् ॥ १७ ॥ तदेवं मार्गानुसारिमावस्य कालमानमुक्तम् , अथानेम सदाचारझियारुपेण ज्ञानदर्शनयोगायोगाभ्यां यथा चतुर्भङ्गी निष्पयते तथा एअम्मि नाणदंसणजोगाजोगेहिं देससव्वकओ। चउभंगो आराहगविराहगत्तेसु सुअसिद्धो ॥१८॥ एअम्मिति । एतस्मिन्- मार्गानुसारिभावे सदाचारक्रियारूपे ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयोर्देशसर्वकृतश्चतुर्भङ्गसमाहारः श्रुतसिद्धः । तथाहि-१ मार्गानुसारिक्रियावान् ज्ञानदर्शनहीनश्च देशाराधक इति प्रथमो भङ्गः । २ ज्ञानदर्शनसंपन्नः क्रिया. हीनश्च देशविराधक इति द्वितीयः । ३ ज्ञानदर्शनसंपन्नः क्रियासंपन्नश्च एतस्मिन् शानदर्शनयोगायोगाभ्यां देशसर्वकृतः । चर्मङ्गमाराधकविराधकत्वयोः श्रुतसिद्धः ॥ १८॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy