________________
१४५
पश्च
"
पूर्तिः स्याद् इत्यादि कापि परकल्पना दूरमपास्ता वेदितव्या । कृत्वः' इत्यस्य तिर्यक्शब्देनैव योजनाया असंभवात्, द्वन्द्वसमासमर्यादया प्रत्येकमेव तदन्वयाद् भवग्रहणव्यक्त्यपेक्षस्यं पञ्चवारत्वस्यानरन्तवारग्रहणेषु जात्यपेक्षसंकोचन समर्थयितुमशक्यत्वात् तादृशशाविनाऽनुपपत्तेः । नह्येकत्रानन्तवार भवग्रहणाभ्युपगमेऽप्येकवारणमेव वक्तुं युक्तम्, स्थानभेदेन तत्स्थानावच्छिन्नाधिकृनक्रियाजन्यव्यापारोपहित काललक्षणवार भेदाद् ; विजातीयस्थानगमनान्तरिततज्जातीयस्थानावच्छिन्नभ्रमणक्रियाजन्यभवग्रहणव्यापारोप हितो यावान् कालस्तावत एकवारत्वाभ्युपगमे च “तिर्यक्ष्वनन्तवारं भ्रान्तः” इति वदन एव व्याघातः । किंच एवं “ बहवो जीवा नित्य निगादेष्वनन्तवारं जन्ममरणानि कुर्वन्ति ” इत्याद्यखिलप्रबचनविलोपप्रसङ्ग इति न किंचिदेतत् ।
किंच- ' च्युत्वा ततः पञ्चकृत्वः' इत्यादिश्लोकैकवाक्यतया हि ' चत्तारि पंच' इत्यादिभगवती सूत्रं त्वया व्याख्यातुमिष्टम्, तथा च तत्र विजातीयभवान्तरिततया तिर्यक्षु पञ्चवारमेवानन्तभवग्रहणसि द्विरिति सर्वेषामपि प्रत्यनीकामीदृशमेव संसारपरिभ्रमणं सिध्येत् नत्वनन्तान्यान्यभवान्तरित भवबहुलम् ; यतो “ देवकिब्बिसिया णं ते ताओ देवलांगाओ आउक्खणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चत्ता कहिं गच्छिति ? कहिं उववज्जिति । गोयमा ! जाव चत्तारि पंच णेरइय-तिरिक्खजो - णिय- मणुस्स- देवभवग्गहणाई संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झंति, जाव अंत करंति" त्ति त्वया सामान्यसूत्रमङ्गीक्रियते ततश्चोक्तस्य 'चत्तारि पंच' इत्यादिविशेषसूत्रस्य नारकगतिप्रतिषेधमात्रेणैव विशेषोऽभ्युपगम्यते नत्वधिकः कश्चिदपीति ।
.
अथास्त्वन्यत्रं यथा तथा भगवत्यपेक्षया तु जमालेरनन्ता एव भवा लभ्यन्ते, यतो यावच्छन्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः
१ देवकिल्बिषकास्ते तस्माद्देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं त्रयं च्युत्वा व गमिष्यति ? क्व उत्पत्स्यते ? गौतम् ! यावच्चत्वारि पञ्च नैरयिकतिर्यग्योनिक- मनुष्य देवभवग्रहणानि संसारमनुपर्यस्य ततः पश्चात्सेत्स्यति यावदन्तं करिष्यतीति ।