________________
२४७
नेति वाच्यम्, सूत्रस्य सूत्रान्तरेसम्मत्या व्याख्यानकरणे आशातनायाः परित्यागात् । किंच-भवतोऽप्यप्रमत्तरूपछास्थविशेषमुपादायैव व्याख्यानकरणान्नैतद्विषये पर्यनुयोग एव युज्यते ।
" यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैका पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥” इति वचनात् । ननु प्रमत्तस्य पक्षत्वेऽप्रमत्तसंयते कथं छद्मस्थत्वं स्याद् ? लिङ्गाभावाद्-इति चेद्, न । लिङ्गिनि लिङ्गावश्यंभावनियमाभावाद् , धूमं विनापि तप्तायोगोलके वह्निदर्शनात् । ननु यद्येवं प्रमत्तस्य पक्ष भावतःप्राणातिपातकत्वादीनां च लिङ्गत्वं तदा छद्मस्थत्वगमकलिङ्गेषु कदाचिद् '-इति विशेषणं यत्टीकाकारेण दत्तं तदनुपपन्नं स्याद्, अप्रमत्तसंयतपक्षे द्रव्यप्राणातिपातादीनां लिङ्गत्वे हि तेषां सार्वदिकत्वाभावेन स्वरूपासिद्धिवारणार्थ तदुपपन्नं स्यात् । प्रमत्तसंयतपक्षे भावाप्राणातिपातस्य सार्वदिकत्वेन तद्विशेषणस्यानुपपत्तिरेवेति । मैवम् , अविशेषेणोक्तस्य प्राणातिपातकत्वादेः स्वरूपसिद्धत्वाभावेन 'कदाचिद् '-इत्यस्योभयमतेऽपि स्वरूपविशेषणत्वात् कालिकसम्बन्धेन व्याप्तेरभिप्रेतत्वेऽपि 'कदाचिद् ' इत्यस्य कालान्तरोपसङ्ग्रहेऽनुपयोगाद्, यदा प्राणातिपातकत्वादिकं तथा छअस्थत्वमिति नियमसिद्धौ ‘कदाचिद् ' इत्यनेन किमुपकर्त्तव्यमेतादृशनियमस्फोरणं विनेति । केचित्तु केवली कदाचिदपि प्राणानामतिपातयिता न भवतीति यत्केवलिनो लिअमुक्तं तत्सर्वाप्रमत्तानामपि समानमिति तद्व्यात्त्यर्थं छद्मस्थलिङ्गेषु कदाचिद् ' इति विशेषणमुक्तम् । इत्थं चाप्रमत्तानां प्रमत्तगुणस्थानवतित्वे प्रमत्तत्वात् कदाचिद्भावतोऽपि यत्माणातिपातकत्वं सम्भवति, न तु केवलिनः, तस्य देशोनपूर्वकोटी. कालमप्यप्रमत्तत्वस्यैव भावादिति विशेषोऽबबुद्धो भवति । न चाप्रमत्ता अपि सर्वदा प्राणानतिपातका एव भवन्ति, प्रमत्तत्वेन प्राणातिपातकत्वेऽत्वप्रमत्ता एव नोच्यन्ते इत्यतिप्रसक्त्यैवैतल्लक्षणमिति वाच्यम्, अप्रमत्तस्य प्रमत्तगुणस्थानवर्तिनो जीवधाते अहो ' अप्रमत्तोऽपि जीवघातं करोति' इति व्यपदेशसम्भवात् , चतुदंशपूर्व्यादीनां चतुर्गतिकत्वा दिवचनवदेतदुपपत्तेः । यथाहि-' भगवानपि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटीं भ्रान्तः' इति योगशास्त्रदृत्तिवचनम् । लोकेऽपि च घृतघटे घृताभावेऽपि 'घृतघट ' इति व्यपदेशो भाविनि भूतवदुपचारेण दृश्यते, तथैवाप्रमत्तादिगुणस्थानवर्तिनोऽपि प्रमादवत्वे भावतः प्राणातिपातक