________________
२५२
पत्तेः तेषामपि चारित्रमोहनीयकार्यत्वप्रतिपादनात् । तदुक्तं भगवत्यां - "चरिमोहणिज्जेणं भंते! कम्मे कतिपरीसहा समोअरंति ? गो० सत्त परीसहा समोअरंति । तं० - " अरती अचेल इत्थी णिसीहिआ जायणा य अक्कोसा । सक्कारपुरकारे चरित्तमोहमि सत्तेत्ति " ॥ तत्त्वार्थभाष्येऽप्युक्तम् - " चारित्रमोहे नाग्न्यारुतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः परीषहा उक्ताः । " इति । एतद्वृत्तिर्यथा - "दर्शनमोहवर्जं शेषं चारित्रमोहनीयं चारित्रान्मूलोत्तरगुणसम्पन्नान्मोहनात्पराङ्मुखत्वाच्चारित्रमोहनीयम्, तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति । नाग्न्यं जुगुप्सोदयाद्, अरत्युदयादरतिः, स्त्रीवेदोदयात् स्त्रोपरिषहः, निषद्या स्थानासेवित्वं भयोदयात्, क्रोधोदयादा क्रोशपरीषहः, मानोदयाद् याच्या परीषह इति ॥ अथचारित्रमोहोदये सत्येते परत्रहाः प्रोक्ताः, तस्मादुपशान्ते न भवन्तीति चेत्, तर्हि चारित्रमोहनीयकर्मोदये सति प्राणातिपातादयः प्रोक्ताः, अतस्तेऽपि तत्र मा भूवन् । अथ भावत एव प्राणातिपातादयश्चारित्रमोहनीयोदयसमुत्याः, द्रव्यतस्तु चारित्रमोहनीयस्य सत्तायामपि तत्र ते भवन्तीति चेत्, तर्हि भावत एव चारित्रमोहनीयोदयसमुत्थाः सप्त परीषहाः सूक्ष्मसम्परायगुणस्थानं यावद्भवन्ति, द्रव्यतस्तु त एवोपशान्तमोहेऽपि चारित्रमोहसत्तानिमित्तका भवन्तु, युक्तेरुभयत्र तौल्यादिति । यच्च संभावनारूढमृषाभाषण निषेधव्याघातेनैव तत्सिद्धिसमर्थनं कृतम्, तत्तु शशशृङ्गस्यापि निषेधव्याघातात् तत्सिद्धिसमर्थनप्रायम् । या च ( अ ) लोके लोककल्पनातुल्या सम्भावना प्रोक्ता, सा तु प्रकृतार्थस्यातिशयितत्वमेव प्रतिपादयेद् | अलोके लोकप्रमाणासंख्येयखण्डप्रमाणावधिज्ञानविषयकल्पना हि वैज्ञानिकसम्बन्धेन तद्विषयविशिष्टतामवधिज्ञानस्यैव ज्ञापयतीति । आह च भाष्यकारः
" तो पुण बाहिं लोगत्थं चैव पासई दवं । सुहुमयरं सुहुमयरं परमोही जावपरमाणुं ।। " - इति । तद्वदिहापि सम्भावनया विशिष्टमेव मृषाभाषणं प्रसज्येतेति विपरीतैवेयं कल्पना भवत इति । यश्च अत एव ' कालशौकरिकस्य' इत्याद्युक्तं तत्तु तं प्रत्येव लगति, यतः कालशौकरिकस्य महिषव्यापादनत्वेन भगवतोक्तं तद्भावमाश्रित्य, तेन तत्र तत्कल्पनायाः प्रामाण्यम्, सम्भावनारूढ मृषाभाषणादेर्मृषाभाषात्वादिकं तु भावतो नोच्यत इति कथं तत्कल्पना स्याद् ? नह्यसतः सम्भावनापि सम्भवति, नहि क्षीणमोहे मैथुनादीनां भवतापि सम्भावना क्रियते; अत एव क्षीणमोहे