________________
૭૭
विराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमादेशाविरोधादिति चेद् । न, एवं सत्यसंयतभव्यद्रव्य देवानां निहवानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् । अथ नास्त्येव तेषामुपपातसाम्यम्, ग्रैवेयकेष्वपि निह्वस्य देवदुर्गतितयोत्पादादू | देवदुर्गतत्वं च न केवलं देवकिल्बिषिकत्वादिनैव, तत्र तेषामभावाद्, किन्तु संमोहत्वेन । स च देवदुर्गतस्ततश्च्युतोऽनन्तकाल संसारे परिभ्रमति । यदागमः
46
'कंदष्पदेव किल्बिसअभिओगा आसुरी य संमोहा । तो देवदुग्ईओ मरणंमि विराहिआ हुंति ।। "त्ति ।
आतुरप्रत्याख्यानप्रकीर्णके व्याख्यादेशो यथा-" संमोह'ति संमोहयन्ति-उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा एवं रूपा दुर्गतिः, ता एव देवदुर्गतयो मरणापध्यानादिना विराधिता भवन्ति, ततश्च्युता अनन्तसंसारं परिभ्रमन्तीति चेद् । न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तग्रैवेयकोत्पादानां संमोह प्राबल्येन लुप्तसुखानां देवदुर्गतत्वाविशेषाद् । उक्तं चोपदेशपदे
66.
कह णु अकालपओगे तो गेविजगाइ सुहासिद्धी । साहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ॥ १ ॥ कुणइ इह संगिताए सदो सहजोगसुक्खमित्तं तु । तह एवं विष्णेयं अणोरपारंमि संसारे ॥ २ ॥
तत्तओ तयंपि हु सुक्खं मिच्छत्तमोहिअमइस्स । जह रोहवाहि गहिअस्स ओसहदेवे य तब्भावे ॥ ३ ॥
कन्दर्पदेव - किल्विषाभियोगा आसुरी च संमोहाः । ता देवदुर्गतयो मरणे विराधिता भवन्ति ॥ कथं न्वकालप्रयोगे इतो ग्रैवेयकादिसुखसिद्धिः । ननु साधिकौषधयोगसख्यतुल्या ज्ञातव्या ॥ १ ॥ करोतीह संक्षितया सदोषधयोग सौख्यमात्रं तु । तथैतद् विज्ञेयं अनवारपारे संसारे ॥ २ ॥ न च तत्त्वतस्तदपि खलु सौख्यं मिध्यात्वमोहितमतेः ॥ यथा रोद्रव्याधिगृहीतस्य.....