SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७८ जह चेवोवहयनयणो सम्मं रूवं ण पासइ पुरिसो। तह चेा मिच्छदिही वि उलं सुक्खं ण पावेइ ॥ ४ ॥ असदभिणिवेसवसो णिओगओ ताण तत्तओ भोगो । सव्वत्थ तदुवघायावि सघारियजोगतुल्लोत्ति ॥५॥ एतस्माद्धि वचनादभव्यादीनामेव निलवाद्यपेक्षयाऽप्यकालवचनौषधप्रयोगेण मिथ्याभिनिवेशदाादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गावं प्रतीयते, परेण त्वभव्यनिहवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गोकृतं प्रसज्यते च तत्प्रक्रिया द्रव्याज्ञापेक्षयाऽभव्यादीनामपि सवाराधकत्वात् तात्त्विकसुदेवत्वमेवेति यत्किंचिदेतत् । . अथ चारित्रापेक्षयाऽऽराधकत्वं द्रव्यप्रतिपत्त्यैव परिभाष्यते, ज्ञानदर्शनापेक्षया तु भावप्रतिपत्त्या ततोऽभव्यादीनां द्रव्यलिङ्गिनां देशाराधकत्वमेव । निहवानां च देशाराधकत्वं देशविराधकत्वं च ततो देशाराधकत्वापेक्षयोभयोपपातसाम्यं दुर्गतित्वनिबन्धनं चैकस्य साहजिकं मिथ्यात्वम् , अपरस्य च विराधनाजन्यमिति परिभाषायां को दोषः ? इति चेद् , नन्वेवं परिभाषाश्रयणावश्यकत्वे वृत्तिकृत्स्वारस्येनैव साऽऽश्रयणी या इत्यभिप्रायवानाह-तत् . तस्मादति परिगृय परिभाषा वक्तुं युक्ता । 'जे' इति पादपूरणार्थों निपातः । वृत्ती हि श्रुतशब्देन ज्ञानदर्शनयोः शीलशब्देन च प्राणातिपातादिक्रियाया एव परिभाषणाद् । अश्रुतवान् शीलवांश्च मार्गानुसार्यव बालतपस्वी पर्यवस्यतीति भावः। नहि द्रव्यलिङ्गधरोऽभव्यादिर्व्यवहारेण बालतपस्वी वक्तुं युज्यते । " तो एते. बालतवस्सिणो दृव्वेत्ति" महानिशीथे नागिलवचनं कुशीलेषु बालनिश्चयाभिप्रायकमवति । न चैकस्मिन्नेव वाक्ये देशाराधकत्वमशुद्धव्यवहारात् , तदुपपादकं बालतपस्वित्वं च निश्चयादिति वक्तुं युक्तम् , संदर्भविरोधात् , किन्तु निश्चयप्रायका यथवोपहतनयनो सम्यग् रूपं न पश्यति पुरुषः । तथेव मिथ्यादृष्टिविपुलं सोख्यं न प्राप्नोति ॥ ४ ॥ असदभिनिवेशवशो नियोगतस्तेषां तत्त्वतो भोगः। सर्वत्र तदुपघातादपि............योगतुल्य इति ॥ ५ ॥ १ तत एते बालतपस्विनो द्रष्टव्या इति । .......
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy