SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ द्वयवहाराद्देशाराधकत्वं तदुपपादकं च मार्गानुसारियमनियमादिक्रियावत्वं बालतपस्वित्वमित्येवं संदर्भाविरोधः । न च व्यवहारे निश्चये प्रायकत्वाप्रायकत्वाभ्यां विशेषः शास्त्रासिद्ध इति व्यामूढधिया शङ्कनीयम् , योगबिन्दूपदेशपदादावेतद्विशेषप्रसिद्धः। नन्वस्यामपि परिभाषायां कथं बालतपस्विनो देशाराधकत्वम् , तद्गतमार्गानुसारिक्रियाया अपि मोक्षमार्गत्वाभावात् , तदंशचारित्रक्रियाया एवांशत्वादिति चेद् । न, संग्रहनयादेशादनुयोगद्वारसिद्धप्रदेशदृष्टान्तेन स्वदेशदेशस्यापि स्वदेशत्वाविरोधादिति सूक्ष्ममीक्षणीयम् ॥ २२॥ ___ नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावाकथं तया देशाराधकत्वम् ? इत्यत्राहमग्गाणुसारिकिरिया जइणिचियभावओ उसम्वत्थ। जेणं जिणोवएसो चित्तो अपमायसारोवि ॥ २३ ॥ 'मग्गाणुसारिकरिय'त्ति । मार्गानुसारिणी क्रिया शीलदयादानादिरूपा सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्रणीताया एव तस्याः सर्वचोपनिबन्धात् , मार्गानुसारिणां च तन्मात्र एव तात्पर्यात् । ते हि क्षीरनीरविवेककृतो हंसा इव निसर्गत एव शुद्धाशुद्धक्रियाविशेषग्राहिण इति कमियं जनो? इत्यत्र हेतुमाह-यद्-यस्माद् अप्रमादसारोऽपि-परमोपेयाप्रमादमुख्योद्देशोऽपि जिनोपदेशः चित्रः-पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यवसन्न इति यावत् । तदुक्तमुपदेशपदे एवं जिणोवएसो उचियाक्खाइ चित्तरूवोत्ति । अपमायसारया ए वि तो सविसओ मुणेयव्वो ॥ १ ॥ मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र । येन जिनोपदेशश्चित्रोअमादसारोऽपि ॥ २३ ॥ __ एवं जिनोपदेश उचितापेक्षया चित्ररूप इति । अप्रमादसारतायामपि ततः स्वविषयो ज्ञातव्यः ॥
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy