________________
०३
रुचिश्च न निवृत्ता, तस्य खमत्यनुसारेण सदाप्रवृत्ते हज्ञानकष्टे पति किंचित कदाचित्परिणामविशेषवशादागमानुपात्यपि स्यात् ।
तदुक्तमुपदेशमालायाम् -
“ अपरिणिच्छिय सुअणिहसस्स केवलमन्भिन्नसुत्तचारिस्स | सम्बुजमेणवि कयं अन्नाणतवे बहुं पंडइ ।। " इति ।
एतद्वृत्तिर्यथा - " - " अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसद्भावो येन स तथा तस्य, केवलमभिन्नमविवृतार्थं यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मों यस्य सोऽभिन्नसूत्रचारी तस्य सर्वोद्यमेनापि समस्तयत्नेनापि कृतमनुष्ठानमज्ञानतपसि पञ्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति ॥"
"
यद्यपि खमत्या प्रवर्तमानानां घुणाक्षरन्यायात्समागतं किंचिच्छुद्धमपि कृत्यं नागमानुपाति, अन्यथा निहृवानामपि तदापत्तेः; तथाऽपि शुद्ध कियाजन्यनिर्जराप्रतिबन्धकस्वमतिविकल्पे यत्किञ्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम्, न तु मम्मतानुसारित्वेनै बागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः । तदेवंविधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपखी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ॥ २५ ॥
ननु ' लौकिक मिथ्यात्वाल्लोकोत्तरमिध्यात्वं बलीय:' इति हे तोरुभयोर्महाभेद एव इत्यत आह
लोइअमिच्छत्ताओ लोउत्तरियं तयं महापावं । इअ गंतो जुत्तो जं परिणामा बहुविअप्पा ॥२६॥
लौकिक मिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् ! इत्येकान्तो न युक्तो यत्परिणामा बहुविकल्पाः ॥ २६ ॥
अपरिनिश्चितश्रुतनिकषस्य केवलमभिन्नसुत्रचारिणः । सर्वोमेनापि कृतमज्ञानतपसि बहु पतति ॥