________________
योगान्जीवघातो मा भूद्, अयोगिकेवलिवन्मशकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलियोगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् । तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन । नायः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः, तेषामप्यात्माद्यनारम्भकत्वेन शुभयोगत्वात् । न द्वितीयः, केवलियोगत्वेन जोवघातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरपतिबन्धात्, सा च तवानिष्टेति । नापि तृतीया, क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच्च मोहक्षयस्यैव तथात्वकल्पनौचित्यात् । तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापत्यभ्युपगमो दुर्घटः स्यादिति । न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारणाय क्षीणमोहयोगत्वेन जीवघातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षम स्यादिति सर्वजीवाहिंसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सर्वथाऽभावाभिप्रायेण । अनाभोगस्तु न तज्जनको येन तदभावात्तदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम् ।
किंच-मशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् । नायः, व्यसनितामात्रकृतकल्पनाया अनादेयत्वाद् । न द्वितीयः, तादृशस्य जीवघातस्य सयोगिकेवलिनो दोषत्वेऽयोगिकेवलिनोऽपि दोषत्वापच्यवादिति बहुतरमूहनीयम् ॥ ७३ ॥ ___ अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयन्नाह'सा तस्स सरूवणं वावारेणं च आइमे पक्खे । पडिलेहणाइहाणी वितिए अ असक्कपरिहारो ॥४॥ - व्याख्या-'सा तस्स' त्ति । सा जीवरक्षा तस्य केवलिनः शुभयोगस्य स्वरूपेण सत्तामात्रेण वा, अथवा व्यापारेण-जीवरक्षार्थं स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन । आदिमे प्रथमे पक्षे प्रतिलेखनादिहानिः ।
१ सा तस्य स्वरूपेण व्यापारेण चादिमे पक्षे । प्रतिलेखनादिहानिः, वित्तीये चाशक्यपरिहारः ॥ ७४ ॥