________________
प्रतिलेखना हि केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धा । तदुक्तमोघनिर्युक्तौ
" 'पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु । ___ संसत्तमसंसत्ता छउमत्थाणं पडिलेहा ॥१॥" त्ति ॥२५७ ॥
सा च स्वरूपेणैव योगानांजीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापार विनापि जीवरक्षोपपत्तौ तद्विविविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनो युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्रायवश्यभाविजीवसंसर्ग जानन् केवली पलिमन्थादेव नानागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् । तदुक्तम्
" संसज्जइ धुवमेअं अपेहि तेग पुत्व पडिलेहे ।।
पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥७॥ २५८ ॥ त्ति । "एतद्व्याख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति । यदि पुनरपि संविद्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण' त्ति संसक्तमेव जिनाः केवलिनः प्रत्युपेक्षन्ते, न त्वनागतमेव, पलिमन्थादिति ॥” .. 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूलङ्घनप्रलङ्घनादिव्यापारस्यापि केवलिनो वैयर्थ्य बोध्यम्, नियतव्यापारेणैव केवलियोगाजीवरक्षेति । द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति गम्यम्, सर्वत्र जीवरक्षाव्यापारस्य स्वकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य दुकरत्वात् ॥ ७४ ॥ तथाहि'ण हु सका कावं जे इह बायरवानकायनहरणं । केवलिणावि विहारे जलाइ जीवाण य तयंति ॥७॥
१ प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु ।
संसक्तासंसक्तानां छद्मस्थानां तु प्रतिलेखा ॥ २ संसज्यते ध्रुवमेतद् अप्रेक्षितं तेन पूर्व प्रतिलेखयेयुः ।
प्रतिलेखितमपि संसज्यते इति संसक्तमेव जिनाः ॥ ३ नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् । केवलिनाऽपि विहारे जलादिजीवानां च तदिति ॥ ७६ ॥