________________
१०३
एतद्द्वृत्तिर्यथा-"आलोच्य - विमृश्यैवं पूर्वोक्तन्यायेन तन्त्रवचनम् कथम्? इत्याह- पूर्वश्च - तन्त्रस्य पूर्वी भागोऽपरश्च तस्यैवापरो भागः पूर्वापरं तेन, सप्तम्यर्थे वा एनप्रत्यये सति पूर्वापरेणेति पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति सूरिभिराचार्यैः पण्डितैर्वा विधौ विधाने वन्दनागतवेलाद्याराधनरूपे यत्न उद्यमो विधियत्नः स कर्तव्यो विधातव्यो विमुक्तालस्यैः । स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः । किमर्थमेतदेवम् ? इत्याह- मुग्धा - नामव्युत्पन्नबुद्धीनां हितं श्रेयस्तपो योऽर्थः स हितार्थस्तस्मै हितार्थाय सम्यगविपरीततया । यदा हि गीतार्था विधिना स्वयं वन्दनां विदधति, अन्यश्च तथैव विधापयन्ति, तदां मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् ॥”
आह च
तथा
“ जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरिअं मि जयंते तयणुचरा के णु सीयंति ॥
जे जत्थ जया जइआ बहुस्सुआ चरणकरणउज्जुत्ता । जं ते समायरंती आलंबणं तिव्वसद्धाणं ||
"
'जय'त्ति दुषमादौ, 'जइअ'त्ति दुर्भिक्षादाविति । तथाप्रवृत्ता ते वन्दनाधनजन्यं हितमासादयन्ति तद्विराधनाजन्यद्रव्यपापेभ्यश्च मोचिना भवन्तीति । अयं चोपदेशोऽसमञ्जसतया स्वयं वन्दनां विदधानांस्तथाऽनवासापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितलिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन् वीक्ष्य आचार्येण विहितः, एवं हि तत्प्रवृत्तौ तेषामन्येषां चानर्थोऽसमञ्जस क्रियाजन्या च शासनापभ्राजना मा भूदित्यभिप्रायेणेति गाथार्थ । इति । अत एव च कालानुभावाज्जैन प्रवचनेऽप्यल्पस्यैव जनस्याराधकस्य दर्शनात् जिनाज्ञारुचिशुद्धेष्वेव भक्तिमानादिकार्यमिति पूर्वाचार्या बदन्ति ॥
१
२
य उत्तमैर्मार्गः प्रहतः स दुष्करो न शेषाणाम् । आचार्ये जयति तदनुचराः के नु सीदन्ति ॥ थे यत्र यदा यदा बहुश्रुताश्चरणकरणोपयुक्ताः । ते समाचरन्ति आलम्बनं तीव्रश्रद्धानाम् |