________________
२५
वसन्नपि न मार्गगामी न वोन्मार्गगामीति व्यपदिश्यते, किन्तु गृहान्निर्गतः समीहितनगराभिमुखं गच्छन् मार्गगामी, अन्यथा तृन्मार्गगामीति व्यपदिश्यते । एवं तथा भव्यत्वयोगेनानादिमिथ्यात्वान्निर्गतो यदि जैनमार्गमाश्रयते तदा मार्गगामी, जैनमार्गस्यैव मोक्षमार्गत्वाद् । यदि च शाक्यादिदर्शनं जमाल्यादिदर्शनं वाऽऽश्रयते तदोन्मार्गगामीति व्यपदिश्यते, तदीयदर्शनस्य संसारमार्गत्वेन मोक्षं प्रत्युन्मार्गभूतत्वादिति स्वकल्पितप्रक्रियापेक्षयाऽचरमपुद्गल परावर्तवर्तिनः शाक्यादयोऽपि नोन्मार्गगामिनो स्युरिति, “कुप्पवयणपासंडी सव्वे उम्मग्गपडिया" इत्यादि प्रवचनविरोधः । किं च एवं धर्मधिया विरुद्धक्रियाकरणादुन्मार्गगामित्वं यथा व्यक्त मिथ्यात्वोपष्टम्भाच्चरमपुद्गलपरावर्त एव तथा धर्मधिया हिंसाकरणाद्धिंसकत्वमपि तदैवेत्यचरमपुद्गलपरावर्तेषु हिंसकत्वादिकमपि न स्यादिति सर्वत्र त्रैराशिकमतानुसरणे जैनप्रक्रियामा मूलत एव विलोपपत्तेर्महदसमञ्जसम् । तस्माद्भव्यानामपि दूरभव्यानामिव योग्यतानुसारेणाभिग्रहिकव्यक्त मिथ्यात्वोपगमे न दोष इति मन्तव्यम् ।
अथाभव्या अव्यक्तमिथ्यात्ववन्तः, अव्यवहारित्वात् संप्रतिपन्न निगोदजीववद् - इत्यनुमानात्तेषामव्यक्तमिथ्यात्वसिद्धिः । अव्यवहारित्वं च तेषामनन्तपुद्गलपरावर्तकालस्थायित्वात् सिध्यति । व्यावहारिकाणामुत्कृष्टसंसारस्यावलिका संख्येय भागपुद्गल परावर्तमानत्वात् । तदुतं कायस्थितिस्तोत्रे
“ अव्वहारियमज्झे भमिऊण अनंतपुरगलपरहे । sa aani संपत्ती नाह तत्थवि य ॥ उक्कोसं तिरियगई - असण्णि- एगिंदि-वण- पुंसेसु । भमिओ आवलिअअसंखभागसमय पुग्मलपरट्टे ।।
अव्यवहारिकमध्ये भ्रान्त्वाऽनन्तपुद्गलपरावर्तान् । कथमपि व्यवहारराशि संप्राप्तो नाथ ! तत्रापि च ॥ उत्कृष्टं तिर्यग्गत्यसंश्ये केन्द्रिय-वण- नपुंसकेषु । भ्रान्त आवलिकाऽसंख्य भाग समय पुल परावर्तान् ॥