SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ संसारकान्तारं विविधशारीरमानसानेकदु 'खविटपिशतसहखदुस्तरं भवगहनं अणुपरिअहिंसुति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेवाज्ञा आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेति व्युत्पत्तेः, ततः मा त्रिधा, तद्यथा- सूत्राज्ञा अर्थाज्ञा तदुभयाज्ञा । संप्रत्यगृषामाज्ञान्तं विराधनाश्चिन्त्यते - यदाऽभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना । सा च यथा जमालिप्रभृतिना यदाऽभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं रूपयति तदाज्ञाविराधना सा च गोष्ठामा हिलादीनामिवावसातम्या । यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदोभयाज्ञाविराधनाः सा च दीर्घसंसारिणामभव्या दी) नामनेकधा विज्ञेयेति । तथाऽभिनिवेशतोऽन्यथा पाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाचातुरन्त संसारं नारक तिर्यग्ग्ररामर विविधवृक्षजालदुस्तरं भवावटी गहन गित्यर्थ अनुप रानृतवन्त असन् जमालिवद् | अर्थाज्ञायाः पुनरभिनिवेशतोऽन्यमपणादिलक्षणया विराधनया गोष्टामाहिलवदिति तु हारिभवामेतद्ताकमिति ॥ तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपतिरिति सातंव्यम् । 99 यतु आशातनाबहुलानां नियमेनानन्तसंसारी भवनीति ज्ञापना मेवेदं जमालिदृष्टान्तोपदर्शनं, चातुरन्तशब्दस्तु संसारविशेषणत्वेन संसारस्वरूपाभिधाय को न पुनः सर्वेषामप्याशातनाकारिणां गतिचतुष्टयाभिधायकः; नहि गतिचतुष्टयगमनमेवानन्त संसारित्याभिव्यञ्जकं, अन्वयव्यतिरेकाभ्यां व्यभिचारात्, तस्माद् गत्यादीनां प्रति प्राणिनं भिन्नत्वान्न तौल्यमिति परेणात्र समाधानं क्रियते, तदसंबद्धवाग्वादमात्रम् । चतुरन्तशब्दार्थस्य संसारविशेषणत्वे चतुरतसंसारपरिभ्रमणस्य विशिष्टसाध्यस्य पर्यवसानात् चतुरन्तान्वितसंसारस्य भ्रमणेऽन्ययात् तथा च दृष्टान्ते जमालौ साध्यवैकल्पदोषानुद्वात् । नहि विशिष्टे साध्ये विशेष्यांशसद्भावमात्रेण दृष्टान्ते साध्यवैकल्यदोष उद्धर्तुं शक्यते । अनभिज्ञस्यार्हचैत्यानगारशब्दाभ्यामेकस्यैवार्थस्य योधनमित्यभ्युपगमे च प्रेक्षावतामुपहासपात्रत्वापत्तिः । गत्यादीनां च यथा प्रति प्राणिनं भिन्नत्वं तथा संसारस्याप्यध्यवसायविशेषाद् भिन्नत्वं किं नेष्यते ? “ उम्मगमग्गसंपट्ठियाणं" इत्यादिनोत्सूत्र भाषिणां नियमादनन्त ससारसिद्धौ च
SR No.022241
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorBhagwandas Pandit
PublisherHemchandracharya Sabha
Publication Year1922
Total Pages278
LanguageSanskrit, Gujarati, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy