________________
७४.
गन्तव्या: प्रसज्येरन्, मोक्षमार्गभूतशीलस्योपदिष्टत्वात् । तरमाद् भव्या अभव्याश्च निखिल जैन सामाचार्यनुछानयुक्ता मिथ्यादृष्टय एव देशासधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मार्गपतितत्वेन व्यवहारनयापेक्षया प्रशस्तत्वाद् । अत एवाराधकानां सतामेतेषां नवमग्रैवेयकं यावदुपपातो न विरुद्धः, अखण्डसामाचारीपरिपालनबलेन तत्रोत्पा दात् । यदागमः - " अहे मंते असंजयभविअदव्वदेवाणं.... यावत् - जहणणं भवणवासी उकासेण उवरिमगेविजयसुं "त्ति भ० श० २३२ वृत्येक देशो यथा - " तस्मान्मिथ्यादृष्टय एव भव्या अभव्याश्वासंयत भव्यद्रव्य देवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठाने युक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । ते ह्यखिलसामाचारीप्रभावत एवोपरितनग्रैवेयकेषूत्पद्यन्ते, असंयताश्च सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति " । इत्थं चैतदङ्गीकर्तव्यम् - जिनोक्तमनुष्ठानमन्तरेणाराधकत्वाभावाद् मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावा-चेति ॥१९॥
एतन्मतं दूषयति
तं मिच्छा, जं फलओ मुक्खं आराहगत्तमिह पगयं । तं च ण एगंतेणं किरियाए भावमुन्नाए ॥ २० ॥
तंमिच्छति । तत्संप्रदायवाद्योक्तं मतं मिथ्या, यद् यस्मादिह प्रकृतचतुर्भङ्गीप्रतिपादक भगवतीचे मुख्यं मोक्षासु फूलमाराधकत्वं प्रकृ तम् ज्ञान - क्रियान्यतर मोक्ष कारणवादिनामन्यतीर्थिकानां मतनिरासार्थं तत्समुचयवादे विशदीकरणायैतत्सूत्रप्रवृत्तेः । प्रत्येक ज्ञानक्रिस्वल्प सामर्थ्यस्य समुदितयोश्च तयोः सम्पूर्ण सामर्थ्यस्य प्रदर्शनार्थं देशाराधकादिचतुर्भङ्गयुपन्यासस्य सार्थक्यात्, प्रत्येकं स्वल्पसामर्थ्यस्याभावे च सिकतासमुदायात्तैलस्येव तत्समुदायादपि मोक्षस्यानुपपत्तेः । तदिदमाहाक्षेपसमाधानपूर्वं भाष्यकारः
-
१ अथ भगवन् ! असंयत भव्य द्रव्यदेवानां यावत् जघन्येन भवनवासिषु, परिग्रैवेयकेषु इति ॥
तन्मिथ्या, यत्फलतो मुख्यमाराधकत्वमिह प्रकृतम् । तच्च नैकान्तेन क्रियया भावशून्यया ।। २० ।।