________________
सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थप्रसिद्धा अभिन्नग्रन्थेजीचस्योत्कर्षतो बन्धो 'यद्' यस्मात्कारणात् 'न तु' न पुनरेकाऽपि सागरोपमकोटीवन्धः, “ इतरस्य तु' भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः ॥ अथोपसंहरन्नाह
तदत्र परिणामस्य भेदकत्वं नियोगतः।
वाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ॥ . यतो ग्रन्थिमतिक्रम्यास्य न बन्धस्तत् तस्माद् 'अत्र' अनयोभिन्नग्रन्थीतरजीवयोर्विषये "परिणामस्य ' अन्तःकरणस्य भेदकत्वं भेदकभाको 'नियोगत' नियोगेन, 'बाह्यं तु बहिर्भवं पुनरसदनुष्ठानमर्थोपार्जनादि 'प्रायो' बाहुल्येन "तुल्यं' समं द्वयोरप्यनयोरिति” सैद्धान्तिकमतमेतद् । येऽपि कार्मग्रन्थि का भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमिच्छन्ति, तेषामपि मतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वे न विप्रतिपत्तिः। यद्यपि अल्पबन्धेऽपि भिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राबल्येऽनन्तसंसारित्वं संभवति, तथापि मन्दीभूतं लोकोत्तरमिथ्यात्वं संनिहितमार्गावतरणबीजं स्यादिति विशेषः।
न चैवं “लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं' इत्येकान्तोऽपि प्रायः, लोकोत्तरस्यपि भिन्नग्रन्थीतरसाधारणत्वात्, मुग्धामां परेषां मिथ्यात्वऋद्धिजनकतया लोकोत्तरमिथ्यात्वस्यापि महापापस्वेनोक्तत्वाच्च । यदागमः
जो जहवायं ण कुणइ मिच्छदिही तओह को अण्फो। . बड्डेइ मिच्छत्तं परस्स संकं जमाणो॥” इति । तस्मादत्रानेकान्त एव श्रेयानिति ॥ २६ ॥ गीतार्थनिश्रितमपि देशाराधकमाह
यो यथा वादं न करोति मिथ्याष्टिस्ततः खलु कोऽन्यः । पर्द्धयति मिथ्यात्वं परस्य शङ्कां जनयन् ॥ ....