________________
अन एव गौतमादयः सर्वाक्षरसंनिपातितः प्रवचने भणिताः, पर तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति, सावद्यनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् । एतेन सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसंबन्धिनो बिन्दव इति भ्रान्तिरपि निरस्ता, “षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि,” इत्यादि प्रबादानामपि जैनागमम्मूलकत्वापत्त्या संयतानां सावद्यभाषाप्रवृत्तिप्रसक्तेः । तस्मात्सर्वांशक्षयोपशमसमुत्थद्वादशाजलक्षणसमुद्रस्य पुरस्तादन्यतीर्थिकाभिमतप्रवादाः समुदीता अपि बिन्दूपमा इत्यर्थो युक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः स्यात् । अवयवावयवि-. नोरुपमानोपमेयभावेन वर्णने निजावयवापेक्षया महरवेऽप्यवयविनो गौरवाभावाद, नाङ्गाष्ठो हस्तावयवभावं भजते इति हस्तस्य स्तुतिः संभवति । किं च-समुद्रस्य बिन्दव इति भणनमप्यसङ्गतम् , समुद्रप्रभवा हि वेलाकलोलोम्योदयो भवन्ति न पुनबिन्दवः, ते चोत्पत्तिदंघाद् हस्तवस्त्रादिपापाराद्वा स्यादिति सोनुभवसिद्धम् । अन्यथा समुद्रानिगतविन्दाभिः समुद्रस्य न्यूनत्वापत्या तस्य गाम्भीर्यहानिः स्याद् इत्येवंस्थिते वृतिव्याख्यानसं तिरियम् यद् यस्मात्कारणाद् द्वादशाङ्गं रत्नाकरोपसया शुभाशुभसर्व प्रवादमूलम् , तस्मात्कारणात्स्वरूपतः फलताश्च यावत्सुन्दरमात्मनिष्ठाकरण नियमादिवाच्यवाचकं वाक्यादिकं तत्तलिन द्वादशाङ्गे, एवकारो गम्यः, द्वादशाङ्ग एव समवतारणीयं, तत्र वर्तते एवेत्यर्थः, द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन तद्ववापकभूतस्य सर्वसुन्दरात्मकत्वस्यावश्यंभावात् ; परं सम्यग्दृशां यावत्सुन्दरं तावत्सर्चमपि द्वादशाङ्गमूल कमुदितं भवति, फलतोऽपि शुभत्वात् , तदागमनविधिपरिज्ञानाच । तच्च खानुबन्धपुण्यप्रक्रतिहेतुः। मिथ्यादृशां तु स्वरूपतः क्वचिदंशे शुभत्वेऽपि फलतोऽन् भ वमेवेति । विरुद्धस्वरूपपरिणतयोरुभयोः सम्याग्मिथ्याशारकरणनियमयोरभेदेन भणनमुदितस्याकरणनियमस्यावज्ञया जिनावज्ञा स्यात् , साचालन्तससारहेतुरिति भणितम् । यथा मोक्षाचं स्वरूपतः शुभमपि मनुष्यत्वं संयतजनस्य फलतोऽपि शुभमेव, सोक्षप्राप्तिपर्यन्तं सुगतिहेतुत्वात् । तदेव मनुष्यत्वं व्याधादः फललोऽशुभमेव, जीवघातायसंयमहेतुत्वेन हर्ग