________________
१५०
इति श्री अभयदेवसूरि संतानीयगुणचन्द्रगणिकृते प्राकृत वीरचरित्रेऽपीत्थमेवोक्तम् । “ तिर्यग्मनुष्यदेवेषु भ्रान्त्वा स कतिचिद् भवान् भूत्वा महाविदेहेषु दूरान्निर्वृत्तिमेष्यति । ” इत्युपदेशमालाकर्णिकायामपीत्थमेव निगदितम् ।
अत्र यत्परेणोच्यते -' कतिचिद् भवान्' इति यद् भणितं तत्कि - ल्बिषिकदेवभवाच्च्युतो जमालिरनन्तरं सर्वलोकगर्हणीयान् मनुष्यादिदुर्गतिसंबन्धिनः कतिचिद् भवानवाप्य पश्चात्सूक्ष्मैकेन्द्रियादिषु यास्पतीति ज्ञापनार्थमेव । तथा चागमोऽपि—
" लध्धूगवि देवत्तं उववन्नो देवब्बिसे ।
तत्थवि से न याणे किं मे किच्चा इमं फलं ” ॥ १ ॥ तत्तोवि से चत्ताणं लब्भि ही एलमूअगं । णारगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लाहा ॥ २ ॥ - इति
"
तदतिकदाग्रहविजृम्भितम् अत्र तिर्यगादिषु प्रत्येकं परिमित भ वभ्रमणस्य व्यक्तमेवाभिधानात्, इच्छामात्रेणावशिष्टानन्तभवकल्पनस्याप्रामाणिकत्वात्, स्थूलभवाभिधानमात्रमेतदित्यत्र प्रमाणाभावात् । न च दूरान्निर्वृत्तिमेष्यतीति वचनानुपपत्तिरेवात्र प्रमाणम्, आसन्नतादूरतयोरापेक्षिकत्वात् । किंच-दूरपदं विनाऽप्येवंविधोऽर्थोऽन्य श्र दृश्यते । तदुक्तं सर्वानन्द सूरिविरचितोपदेशमालावृत्ती
" तिर्यक्षु कानपि भवानतिवाह्य कांश्विदेवेषु चोपचितसंचितकर्मवश्य' । लब्ध्वा ततः सुकृतजन्मगृहे विदेहे जन्मायमेष्यति सुखैकखनिर्विमुक्तिम् ।।” - इति
यत्तु जमालेः साक्षात्तीर्थकरदूषकस्यापि पञ्चदश भवाः, सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि षोडश भवा इति जिनाज्ञाराध गपक्षया तद्विराधनमेव सम्यगिति परस्याभिधानं तदविवेकमूलम् । एवं हि हारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वम् आनंदादीनां च देवमनुजभवप्राप्तिक्रमेणेति सुकृतापेक्षया दुष्कृतमव सम्यगिति वदतोऽपि मुर्ख कः पिदध्यादिति ।
यदपि साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरीचः कापिलीयदर्श नप्रवृत्तिहेतुसंदिग्धोत्सूत्र भाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्व
,