________________
१३६
सुर अगुणोवि तित्थंकरोवि तिहुअण अतुल्लमल्लोवि गोवा हिं वि बहुसो कयत्थिओ तिजयपहु तंसित्थी || २ || गोवंभणभूणंतगावि केई इह दढपहाराई । बहुपावा वि य सिद्धा सिद्धा किर तंमि चैव भवे ॥ ३ ॥ तथोपदेशरत्नाकरेऽपि प्रोक्तम्
त्ति |
तथा केषां चिद्देशना पुनः प्रस्तावौचित्यादिसर्वगुणसुभगा परं केवलेनोत्सूत्रप्ररूपणदूषणेन कलिता, साऽपि पुरनिर्द्धमनतुल्या, अमेध्यलेशेन निर्मलजलमिवात्सूत्रले प्ररूपणेनापि सर्वेऽपि गुणा यतो दूषणतामिव भजन्ति, तस्य विषमविपाकत्वाद् । यदागम: - " दुब्भासिएण the " इत्यादि । तथा तत्रैव प्रदेशान्तरे प्रोक्तम् - " केचिद् गुरव आलंबनं विनैव सततं बहुतरप्रमाद सेवितया कुचारित्रिणः देशनायामष्यचातुर्यभूतश्च यथा तथाविधाः पार्श्वस्थादयः, यथा वा मरीचिः " कविला इत्यपि इहयंपि" इत्यादिदेशनाकृद् । देशनाचातुर्यं चोत्सूत्रप रोहारेण सम्यक् सभाप्रस्तावौचित्यादिगुणवत्त्वेन च ज्ञेयम्" इत्यादि ।
" धम्मोकि
यत्तु कश्चिदाह - उत्सूत्रलेशवचनसामर्थ्यादेव प्रतीयते मरीचेर्यचनं न केवलमुत्सूत्रं किन्तूत्सूत्रमिश्रमिति । तन्न, एवं सति "जो चैव भावलेसो सो चेव भगवओ बहुमओ" ति पञ्चाशकवचनाद् य एव मावलेशो भगवहूहुमानरूपो द्रव्यस्तवाद् भवति स भगवतो मुख्यवृत्त्याऽनुमत इत्यर्थप्रतीतौ तत्र भावलेशस्याभावमिश्रितस्य भगवद्बहुमतत्वापत्तेः; तस्मालेशपदमपकर्षाभिधायकं न तु मिश्रितत्वाभिधायकमिति मन्तव्यम् । स्यादयमभिप्रायः - धर्मस्यापि शुभानुबन्धादिति आह सबलओ होइ " इत्यादिना शास्त्रे शबलत्वमुच्यते, शबलत्वं च मिश्रत्वमेव मरीचिवचनस्यापि कुदर्शनप्रवृत्त्या शुभानुबन्धान्मिश्रत्वमविरूद्धम्, कुदर्शनप्रवृत्तेरेव तस्य संसारवृद्धिहेतुत्वेनावश्यकचूर्णायुक्तत्वादिति । सोऽयं दुरभिप्रायः, यतः इत्थं सति फलत एवेदमुत्सूत्रं स्याद् न तु स्वरूपतः, उच्यते स्वरूपतोऽपीदमुत्सूत्रत्वादेव च संसारहेतुरिति १ यश्चैव भावलेशः स एव भगवतो बहुमत इति ।
२
मोऽपि शो भवति ।