________________
२६
[पार्धाभ्युदये
गुणाः अश्वयोग्या यस्मिन् तस्मिन् । वंशे अन्वये जातं समुत्पन्नं । ऊर्ध्वखं 'अवंजानुं । 'ऊर्ध्वशुरूर्ध्वजानुः स्यात्' इत्यमरः । 'वोर्ध्वात्' इति ऊर्ध्वात् परस्य जानुनो वा जुः। ऊर्वे जानुनी अस्य ऊर्ध्वजः। तम् । इव पुष्कलावतकानां । पुष्कलं निर्मलं । शुद्धात्मानमित्यर्थः । आवर्तयन्ति चिन्तयन्ति इति पुष्कलावर्तकाः । ते येषां सन्तीति पुष्कलावर्तकाः। 'ओऽभ्रादिभ्यः' इत्यः । तेषां । येषां कुले शुद्धात्मध्यानानां मुनीनां परम्परा आसीत् तेषां । उग्रनाम्नां उग्राभिधानानां भुवनविदिते लोकप्रसिद्ध बहुगुणे नानागुणे वंशे अन्वये जातं सम्भूतं तं ऊध्वछु ऊर्ध्वजानुं मुनि योगिनं भुवि भूमौ नमयितुं नम्रीकर्तुं । न अशकत न शक्नोति स्म । तं ध्याना - शयितुं समर्थो नाऽभवदिति भावः । अशकदिति स्वादिगणगतस्य शक्नोतेलुङन्तस्यो त्तमपुरुषस्यैकवचनान्तं रूपं ।
The showers of rain poured by the dark clouds, assembled very densly, could not make him, the long- shanked one born in the family of the Ugra Kshatriya clan, cndowed with many good qualities, having a good number of persons that were very learned or had initiated into monkhood, and welknown in the whole world, bend down on the ground like the long - shanked horse, born in the race of excellent horses bcaring auspicious marks, endowed with a large number of good qualities and welknown in the whole world.
भूयः क्षोभं गमयितुमना: स्वान्तवृत्तिं मुनीन्दो
चाटत्वं प्रचिकटयिषु/रमेवं जजृम्भे । भो भो वीर स्फुटमिति भवान् मय्यगादल्पमृत्यु
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ॥ २२ ॥
अन्वय :- मुनीन्दोः स्वान्तवृत्तिं भूयः क्षोभं गमयितुमनाः वाचाटत्वं प्रचिकटयिषुः 'भो भो वीर! (यः) भवान् मयि अल्पमृत्यु अगात् (तं ) त्वां मघोनः कामरूपं प्रकृतिपुरुषं स्फुटं जानामि' इति एवं धीरं जजृम्भे।।
भूयःक्षोभमित्यादि । मुनीन्दोः। मुनिः इन्दुः इव मुनीन्दुः। तस्य । ' व्याघ्रादिभिरुपमेयोऽतद्योगे' इत्युपमितसमासः । अत्र मुनरिन्दुतुल्यत्वं सुखशान्तिप्रदत्वात् । स्वान्तवृत्तिं । स्वान्तस्य मनसः वृत्ति प्रवृत्तिं । ध्यानकतानतारूपामित्यर्थः । क्षोभं विकृति गमयितुमनाः प्रापयितुमिच्छन् । 'सम्तुमो मनःकामे' इति तुमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org