________________
द्वितीयः सर्गः] परिणताऽस्तीत्वेषा तस्य महाराजस्य कीर्तिरेवेति सम्भावयन्नित्यर्थः। व्यालम्बेथाः आश्रयेथाः । तन्नद्याश्रयं कुर्वित्यर्थः। 'पुरा किल राज्ञः रन्तिदेवस्य गवालम्भेष्वेकत्र सम्भृताद्रक्तनिष्यन्दाचर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायते' इत्युक्तं मलिनाथेन मेघदूतटीकायाम् । गोसहस्रविशसनजनितां अकीर्ति स्रोतोमूर्त्या परिणतां चर्मण्वती विज्ञाय तां प्राप्य पुण्यतोयैः प्रक्षाल्य विशोधयन् इयं रन्तिदेवस्य कीर्तिरूपाऽ स्तीति तां सम्भावयितुमिच्छंस्तामाश्रयेथाः इति तात्पर्यम् ।
Having departed from that (i.e. the Devagiri mountain ) and having approached her (i.e. Charmanvati) who possesses dirt in her stream owing to the rivulets (or streams ) incessantly pouring into her, who is the infamy, come into being owing to the slaughter of the daughters of Surabhi ( i.e. cows ), spreading through the mouths of people and bringing itself into the shape of a river (i. e. the Charmanvati) on the earth, you, washing her off by holy waters and honouring her ( the river ) as the fame (of Rantideva), should have recourse to her (i. o. the Charmanvati).
तस्या मध्येजलमुपचिताम्भोनिकाये मुहूर्त __ छायां कृष्णाजिनमदहरां सन्दधाने समग्राम् । मन्ये युक्तं सरिति सुतरां तत्र चर्मण्वतीति
त्वय्यादातुं जलमवनते शार्गिणो वर्णचौरे ॥ ३७ ॥ अन्वयः-- तत्र सरिति शाङ्गिणः वर्णचौरे त्वयि जलं आदातुं अवनते तस्याः मध्येजलं उपचिताम्भोनिकाये कृष्णाजिनमदहरां समग्रां छायां मुहूर्त सन्दधाने ( सति तस्याः ) ' चर्मण्वती' इति ( अभिधानं ) सुतरां युक्तं मन्ये ।
__तस्या इत्यादि । तत्र सरिति तस्यां चर्मण्वत्यभिधानायां नद्यां शागिणः कृष्णाभिधानस्य बलभद्रभ्रातुर्नारायणस्य। शृङ्गस्य विकारः शाङ्गं । ' तस्य विकारः' इत्यण । शारे धनुरित्यर्थः । तदस्यास्तीति शाही । 'अतोऽनेकाचः' इतीन् । तस्य शाणिः । पीताम्बरनिवसनस्य गोविन्दस्येत्यर्थः। 'दैत्यारिः पुण्डरीकाक्षी गोविन्दो गरुडध्वजः। पीताम्बरोऽच्युतः शाङ्गी विश्वक्सेनो जनार्दनः ' इत्यमरः । वर्णचौरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org