________________
३३८
[ पार्श्वभ्युदये
करोत्यर्थे त्वराशब्दाणिच् । त्वरयेत्यस्य णिजन्तधातुरूपत्वे 'आत्मानं ' इतीबन्तं पदमध्याहार्यम् । मदीयैः मामकीनैः । ममेदं मदीयं । तैः । मत्कृतरित्यर्थः । मच्छब्दस्य त्यदादिषु पाठात् 'त्यदादेः' इति दुसज्ञकत्वाद् दोश्छः ' इति छः । कररुहपदैः खड्गकृतव्रणाङ्कः। कररुहः खड्गः । तस्य पदानि चिह्नानि । तैः । खड्गाघातजनितत्ररित्यर्थः। मुच्यमानः शरीरात्पृथविक्रयमाणः । खड्गप्रहारजनितव्रण कृतमृतिरित्यर्थः । वामः धृतपयोधरशरीराकारः । ' वामः सव्ये हरे कामे धने वित्ते तु न द्वयोः' इति विश्वलोचने । 'वामं धने पुंसि हरे कामदेवे पयोधरे । वल्गुप्रतीपसव्येषु त्रिषु' इति मेदिन्याम् । मद्धेतिहतिजनितव्रणकृतमृत्यनन्तरमुपात्तमुदिरशरीराकारो मरुभूतिचरस्त्वं नः अस्माकं । अस्मत्सम्बन्धिन्याः इत्यर्थः । अस्याः एतत्सम्बन्धि किं किं किं किं कार्य एवं प्रोक्तप्रकारेण लधु शीघ्रं । 'लघु क्षिप्रमरं द्रुतं' इत्यमरः । न कुर्याः न विदध्याः। अपि तु तत्सम्बन्धि सर्वमेव कार्यं कुर्याः एवेति भावः।
____Even by my beloved, my second soul, this has been sent as a message, in a way charming to her affection for you, to you owing to your being second soul of her (of your beloved ), owing to your making a choice of whatever is new, [ and ] owing to your being noble; you should hurry up to carry it into effect. What work l or what is it ] of hers, our relative, which you, [ assuming the form of ] a cloud [ after ] your separation [ from your body ] caused by the wounds inflicted by my sword, would not bring into effect ?
भोभो भिक्षो मयि सहरुषि व प्रयास्यस्यवश्यं
त्वामुद्धतिप्रणिपतनकैः सारयिष्ये तदनम् । न प्राणान्स्वान्घटयितुमलं तावको निर्णयो वा मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ॥२॥
अन्वय :-- भो भो भिक्षो मयि सहरुषि [ सति ] क प्रयास्यसि ? उद्धेतिप्रणिपतनकैः तदग्रं त्वां अवश्यं सारयिष्ये । चिरपरिचितं मुक्ताजालं दैवगत्या त्याजितः तावकः निर्णयः स्वान् प्राणान् घटयितुं न वा अलम् ।
भो भो इत्यादि । भो भो भिक्षो हे योगिन् । आभीक्ष्ण्ये द्विः । भोसिति सकारान्तो निपातः । 'ओदाद्योऽशि' इति रेर्यः । 'हलि' इति अशि हलि परतः यकारस्य खम् । मयि शम्बरासुरे मयि सहरुषि सकोपे सति । 'यद्भावाद्भावगतिः' इती । ' वा नीचः' इति सहस्य सभावस्य वैकल्पिकत्वादत्र न सभावापत्तिः । क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org