________________
चर्तुथः सर्गः]
४१५
In the presence of the lord of serpents, when the lord of demons, Kamatha [ by name in his former birth ], was supplicating thus with his head bent down through devotion, the feeling of enmity roused up cre long, certainly disappeared from his own heart, inflamed with repentance, in the guise of tears dropping down incessantly.
अथ सुरभिसमीरान्दोलितैः कल्पवृक्षः
समममरनिकायाः पुष्पवृष्टिं वितेनुः अविरलनिपतद्भिः स्वर्विमानैर्निरुद्धा
नवजलदविलिप्तेवेक्ष्यताऽसौ तदा द्यौः ॥ ६७ ॥ अन्वयः - अथ सुरभिसमीरान्दोलितैः कल्पवृक्षैः समं अमरनिकायाः पुष्पवृष्टिं वितेनुः । तदा अविरलनिपतद्भिः स्वर्विमानैः निरुद्धा असौ द्यौः नवजलदविलिता इव ईक्ष्यत । __अथेत्यादि । अथ अनन्तरं सुरभिसमीगन्दोलितैः सुगन्धिगन्धवाहप्रकम्पितैः । सुरभयः सुगन्धयश्च ते समीराः गन्धवाहाश्च सुरभिसमीराः। तैः आन्दोलिताः प्रकम्पिताः । तैः । कल्पवृक्षः देवद्रमैः समं साकं । युगपदित्यर्थः । अमरनिकायाः दैवसमाजाः। देवानां निकायाः समाजाः समूहाः देवनिकायाः। निचीयते निकायः । ' चित्यावासाङ्गोपसमाधौ च कः' इति चेर्घञ् चकारस्य च ककारादेशः। 'निकायस्त्वात्मवेश्मनोः । सधर्मिनिवहे लक्ष्ये संहतानां च मेलके' इति विश्वलोचने । पुष्पवृष्टिं कुसुमवर्ष वितेनुः चक्रुः । तदा तस्मिन्समये अविरलनिपतद्भिः निरन्तरोड्डयनैः । निपतति उड्डयते इति निपतन् । तैः। अविरलं निरन्तरं निपतन्तः उड्डयमानाः अविरलनिपतन्तः । तैः । स्वर्विमानैः दिव्ययानैः । स्वर्गीयोमयानरित्यर्थः । “स्वर्गे परे च लोके स्वः' इत्यमरः । निरूद्धा निरन्तरं व्याप्ता असौ एषा द्यौः अम्बरम् । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ' इत्यमरः : नवजलदविलिप्ता इव प्रत्यग्रजलधरदिग्धेव । नवः प्रत्यग्रश्चासौ जलदः जलधर: नवजलदः । तेन विलिप्ता दिग्धा । ईक्ष्यत अदृश्यत ।
Afterwards, the multitudes of gods, along with the wish-fulfilling trees, shaken up by the fragrant winds, discharged flowers in showers. At that time, that sky, covered up with celestial cars, flying up closely. appeared as if besmeared with fresh clouds.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org