Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi

View full book text
Previous | Next

Page 693
________________ अकलका - spotless. न विद्यते कलङ्कः यस्या सा। हिममहिमा - the beauty manifested by the glory of winter-season. हिमस्य शीततोंः महिम्ना प्रकर्षेण महिम्नः प्रकर्षात् वा जाता हिममहिमजा। ताम्। मानयन्तीभिः - by those highly appreciating. लोध्रप्रसवरजसा - with the pollens of Lodhra-flowers. लोध्रालोध्रकुसुमात् प्रसवः उत्पत्तिर्यस्य तल्लोध्रप्रसवम् । तच्च तद्रजश्च । तेन । यद्वा लोध्राणां प्रसवाः कुसुमानि लोध्रप्रसवाः। तेषां रजः परागः। तेन । लोध्रकुसुमप्रभवपरागसाधनेनेत्यर्थः । 'प्रसवो गर्भमोक्षे स्याद्धृक्षाणां फलपुष्पयोः। परम्पराप्रसङ्गे च लोकोत्पादे च पुत्रयोः' इति, ‘रजःपरागे रेणौ तु रजवदृश्यते रजः' इति च विश्वलोचने । प्रालेयांशोः -- of the moon. उपइसति - laughs at. The beauty of the faces of the ladies of the city of Alakā always laughs at and would laugh at the beauty of the moon, when you would be reachiug the city. ___stanza-107-स्वरुचिरचिते - prepared to their liking. स्वस्थ आत्मनः रुचिः इच्छा स्वरुचिः। 'रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि' इति विश्वलोचने । तथा तदानुकूस्पेन वा रचिते विहिते। कल्पवृक्षप्रसूते - brought forth by the wish-fulfilling trees. कल्पवृक्षात् कल्पपादपात् प्रसूतः जातः कल्पवृक्षप्रसूतः । तस्मिन् । 'कल्पवृक्षः सङ्कल्पपुरणात्' इति क्षीरस्वामी। आकल्पःan ornament. 'आकल्पवेषौ नेपथ्यं' इत्यमरः। 'वेषो हि वस्त्रालङ्कारमास्यप्रसाधनैरङ्गशोभा' इति क्षीरस्वामी । चूडापाशे - in the luxuriant hair on the head. केशकलापः चूडापाशः । 'चूडा वलयभेदे स्याच्छिखायां वलभावपि' इति 'पाशः पक्षादिबन्धे स्यांच्चयार्थस्तु कचात्परः । छात्राद्यन्ते च निन्दार्थ: कर्णान्ते शोभनार्थकः' इति च विश्वलोचने । आत्तानुरागम् - possessing red colour. आत्तः गृहीतः अनुरागः लौहित्यं येन तत् । नवकुरबकम् - fresh Kadamba flower. नवं प्रत्यग्रं च तत् कुरबकं कुरबककुसुमं च नवकुरबकम् | 'तत्र शोणे कुरबकम्' इत्यमरः । कुरबकं वसन्त सम्भवः : पुष्पविशेषः । शिरीषम् - . the Sirisa flower. शिरीष ग्रीष्मर्तुसम्भवः पुष्पविशेषः । अभिनवप्रीतिं आहत्य - owing to their being attached to the love for novolties. अभिनवे नूतने प्रीतिः रुचिः अभिनवप्रीतिः। ताम् । आहत्य अपेक्ष्य । किञ्चित् - uny insigni. ficant thing. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844