Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi

View full book text
Previous | Next

Page 829
________________ गतमभिमुखं सन्निवृत्तं तथैव ।। खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयन्ती । साभ्रेऽह्रीव स्थलकमलिनी नप्रबुद्धा नसुप्ताम् ॥ ९७ ॥ सा सन्न्यस्ताभरणमबला पेलेवं धारयन्ती । शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् || त्वामप्येसं नवजलमयं मोचयिष्यत्यवश्यं । प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ।। ९८॥ जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मात् । इत्थम्भूतां प्रथमविरहे तामह तयामि ॥ वाचालं मां न खलु सुभगम्मन्यभावः करोति । प्रत्यक्षं ते निखिलमचिराद्भातरुक्तं मया यत् ॥ ९९ ।। रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं । प्रत्या. देशादपि च मधुनो विस्मृत रूविलासम् ॥ त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या । मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०० ॥ · वामश्चास्याः कररुहपदैर्भुच्यमानो मदीयैः । मुक्ताजालं चिरपरिचितं त्याजितो देवगत्या ॥ सम्भोगान्ते मम समुचितो हस्तसंवाहनानां । यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ १०१ ॥ तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-। देवास्यैनां स्तनितविमुखो याममात्रं सहस्वं ॥ मा भूदस्याः प्रणयिनि जने" स्वप्नलब्धे कथञ्चित् । सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ १०२ ॥ प्रोत्थाप्यनां स्वजलकणिकाशीतलेनाऽनिलेन । प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥ विद्युद्गर्भे स्तिमितनयनां स्वत्सनाथे गवाक्षे । वक्तुं धीरं स्तनिवेचनो मानिनी प्रक्रमेथाः ॥ १०३ ।। भर्तुमित्रं प्रियमभिदधे विद्धि मामम्बुवाहं । तत्सन्देशैर्मनसि निहितैशेंगतं त्वत्समीपम् ।। यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां । मैन्द्रस्निग्धेनिभिरबलावणिमोक्षोत्सुकानि ॥ १०४॥ इत्याख्याते पवनतनयं मीथलीवोन्मुखी सा । त्वामुत्कण्ठोच्छसितहृदया वीक्ष्य सम्भाव्य वै ॥ श्रोष्यत्यस्मात्परमवहितं सौम्य सीमन्तिनीनां । कौन्तोपान्तात्सुहृदुपर्गमः सङ्ग१ गतमपि ततः १०। २ चक्षुः खेदात् । ३ सजलगु०। ४ पेशलं; कोमलं । ५ प्यश्रृं। ६ जललव% जलकण। ७ सुभगं मन्युभावं । ८ सकलम 1 ९ वामं । १० मन्ये मीनाच्चल, मीनक्षोभाकुलकु। ११ वास्याः। १२ चिरविरचितं; नवपरिचितम् । १३ ०संवाहनस्य । १४ कनककलदलीगर्भगौरः। १५०दन्वासीनः; तत्रासीनः। १६ सहेथाः। १७ मयि । १८ तामुत्थाप्य । १९ ०दर्भः; विद्युत्कम्पः; विद्युन्नेत्रः। २० निहितनयनां । २१ धीरः स्त, धीर! स्त; धीरध्वनित; धीरस्तनित | २२ वचनैः। २३ प्रियमविधवे । २४ तत्सन्देशान् । त्वत्सन्देशान् । २५निहितात् ; हृदयनिहितात् । २६ मन्त्र, सान्द्र। २७ सम्भाष्य । २८ चैवम् । २९ कान्तोदन्तात् ; कान्तोदन्तः । ३० °दुपगतः; °दुपनतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844