Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi

View full book text
Previous | Next

Page 830
________________ ( ६९९ ) मात्किञ्चिदूनः ॥ १०५ ॥ तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं । ब्रूयादेव तव सहचरो रामगिर्याश्रमस्थः || अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः । पूर्वाशास्य सुलभविपदां प्राणिनामेतदेव ॥ १०६ ॥ अङ्गेनाङ्गं तनुं च तनुना गाढतप्तेन तप्तं । सास्रेण|सद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ उष्णोच्छ्रासं समधिकेतरोच्छ्वासिना दूरवर्ती । सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ १०७ ॥ शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता - । कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टैः । त्वामुत्कण्ठाविरचितेपैद मन्मुखेनेदमाह ॥ १०८ ॥ श्यामास्वङ्गं, चकितहरिणीप्रेक्षिते " दृष्टिपतिं । वक्त्रे च्छायां शशिनि, शिखिनां बर्हभारेषु केशान् ॥ उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् । इन्तैर्कस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ १०९ ॥ त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया - । मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् || असैस्तावन्मुहुरुपचितैर्दृष्टिरा लुप्यते मे । क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११० ॥ मामाकाशप्रणिहितभुजं निर्दया श्लेष हेतोः । लब्धायास्ते कथमपि भैया स्वप्नसन्दर्शनेषु ॥ पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां । मुक्तास्थूलास्तर किसलयेष्वलेशाः पतन्ति ॥ १११ ॥ भङ्क्षिप्येत क्षणमिव कथं दीर्घयोमा त्रिमा । सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ॥ इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे । गाँढोष्णाभिः कृतमशरणं स्वद्वियोगव्यथाभिः ॥ ११२ ॥ भित्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां । ये तत्क्षीरसुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ आलिङ्ग्यन्ते गुणवति मया ते १ ०मायुष्मान् । २ ब्रूयाः । ३ एकम् । ४ विद्युक्ताम् ; नियुक्तः । ५ पूर्वाभाष्यं; पूर्वाशास्यं; भूतानां हि क्षयिषु करणेष्वाद्यमाश्वास्यमेतत् । प्रतनु त ७ ॰गाश्रुद्रुत ; ०णाश्रुद्रव० । ८ दीर्घोच्छ्वासं० । ९० कखरोच्छ्वा० । १० तत् । ११ ०मगादा० | १२ लोचनानाम० । १३० मदृश्य; मगम्यः | १४ ०ण्ठाविरहित० । १५ प्रेक्षणे । १६ दृष्टिपातात् । १७ वक्रच्छायं; गण्डच्छायं । १८ भ्रूपताकां । १९ ० न्तैकस्मिन् ; न्तैकस्थाम् । २० भीरु । २१ रालिप्यते । २२ सति; निशि । २३०प्यैवं ० येरन् । २४ क्षण इव । २५ व्यामाः । २६ त्रियामाः | २७ गाढोष्माभिः । २८ तद्वियोग० । २९ एतत्क्षी० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844