Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
(६९७) स्वामभिख्याम् ॥ ८८ ॥ गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः। क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ॥ अहस्यन्तर्भवनपतितां कर्तुमल्पापभासं । खद्योतालीविलसितनिभा विद्युदुन्मेषदृष्टिम् ॥ ८९ ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा । मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ॥ पृच्छन्ती वा मधुरवचनं सारिका पञ्जरस्था। कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ९० ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां । मद्गोत्राङ्क विरचितपदं गेयमुद्गातुकामा । तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथञ्चित् । भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ।। ९१ ॥ शेषान्मासान्विरहदिवसस्थापितस्थावधेर्वा ! विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ।। सम्भोगं वा हृदयरचितारम्भमास्वादयन्ती। प्रायेणैते रमणविरह वगनानां विनोदाः ॥ ९२ ॥ सव्यापारामहनि न तथा पाडयद्वियोगः। शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखी ते ॥ मत्सन्देशैः सुखयितुमैतः पश्य साध्वी निशीथे । तामुन्निद्रामवनिर्शयनां सैद्मवातायनस्थः ॥ ९३ ॥ आधिक्षामा विरहशयने सन्निषण्णैकपाची । प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ॥ नीता रात्रिः क्षणमिव मया सार्धमिच्छारतैर्या । तामेवोष्णैविरहमें हैतीमश्रुभिर्यापयन्तीम् ॥ ९४ ॥ निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं । शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम ॥ मत्संयोगैः कथमुपनमेस्वप्नजोऽपीति निद्रा-। माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ९५ ॥ आये बद्धा विरह दिवसे या शिखी दाम हित्वा । शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ॥ स्पर्शक्लिष्टामैयमितनखेनाऽसकृत्सारयन्ती । गण्डाभोगात्कठिन विषैमामेकवेणी करेण ॥ ९६ ॥ पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान् । पूर्वप्रीत्या १ तत्परित्राणहेतोः । २ रत्नसानौ । ३ पुरे । ४ विरहतनुना। ५ मधुरवचनां । ६ निभृते; गिरिके। ७ तन्त्रीमाो। ८ स्वयमधिकृतां । ९ गमनदि० । १० सप्रस्तुतस्याव०। ११ ०लीदत्त । १२ संयोगं वा; मत्सम्भोगं हृ । १३ ०यनिहितार। १४ ०मासाप्त्यन्ती। १५ विरहे ह्यङ्ग। १६ खेदयेत् । १७ मद्वियोगः । १८ ०मलं । १९ °द्रां विरहशयनां । २० सौधवा० । २१ सन्निकीर्णेकपाश्वी; विप्रकीर्णेकपा । २२ क्षण इव । २३ ०हजनितैरश्रु० । २४ विश्वासेना । २५ लम्बि । २६ मत्सम्भोगः । २७ कथमपि भवेत् । २८ शिरो। २९ या । ३० मयोद्वेष्टनीया; मयोन्मोचनीया । ३१ ०मपमित। ३२ विषमादेक०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844