Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
( ६९५ )
पाण्डुतामानेनश्रीः || चूडापाशे नवकुरबकं चारु कर्णे शिरीषं । सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥ यस्यां यश्वाः सितमणिमयान्येत्य हर्म्यस्थलानि । ज्योतिश्छायाकुसुमरचनान्युत्तमस्त्रीसहायाः || आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं । गम्भीरध्वनिषु मधुरं पुष्करेष्वाहृतेषु ॥ ७२ ॥ नीवीबन्धोच्छु सित शिथिलं यत्र बिम्बाधराणां । क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ॥ अँर्त्तिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् । ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ७३ ॥ नेत्रा नीता सततगतिना येद्विमानाग्रभूमीः । आलेख्यानां स्वजल कणिकादोषमुत्पाद्य सद्यः ॥ शङ्कास्पृष्टा इव जलमुचस्त्वादृशो यंत्रे जालैः । धूमोद्गारानुकृतिनिपुणों जर्जरा निष्पतन्ति ॥ ७४ ॥ मन्दाकिन्याः 'सेलिलशिशिरैः सेव्यमाना मरुद्भिः । मन्दाराणां तटवनरुहां छायया वारितोष्णाः || अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपेगूढैः । सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७५ ॥ अक्षय्यान्तर्भवननिघयः प्रत्यहं रक्तकण्ठे - । रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ॥ वैभ्राजाख्यं विबुधवनितावारमुख्या सहायाः । बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ॥ वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं । पुष्पोद्भेदं सह किसलयेभूषणानां विकल्पम् ॥ लाक्षारागं चरणकमलन्यासयोग्यं च 'ॲस्मिन् । एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७७ || पत्रश्यामा दिनकरहस्पर्धिनो यत्र वाहाः । शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ॥ योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः । प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाः ॥ ७८ ॥ मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं । प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् || सभ्रूभङ्गप्रहितनयनैः को मिलक्ष्येष्वमोघैः । तस्यारम्भश्चंतुरवनिताविभ्रमैरेव सिद्धः ॥ ७९ ॥ तैत्रागारं घनपतिगृहादुत्तरेणाऽस्मदीयं ।
१ ० मानने श्रीः । २ ० तेऽपि । ३ रचितान्यु० । ४ ०न्धोच्छ्वसन० । ५ यक्षाङ्गनानाम् । ६ श्वासः । ७ विद्युद्दपानमि० । ८ ०खगतान् । ९ ये विमा० । १० सजलकणिका०; सलिलकणिका; नवजलकणैः । ११ त्वादृशः । १२ जालमार्गैः; यन्त्रजालैः : । १३ ० निपुणं । १४ पयसि शि० । १५० गूढं । १६ विक हपान् । १७ यस्याम् । १८ भयात् त्वामपि प्रेक्ष्य कामः । १९ कामलक्षेषु । २० चटुल । २१ अत्रा० । २२ ०गृहानु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844