Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi

View full book text
Previous | Next

Page 827
________________ (६९६) दूरालक्ष्यं सुरैपतिधनुश्चारुणा तोरणेन ॥ यस्योद्याने कृतकतनयो वर्द्धितः कान्तया मे । हस्तप्राप्यस्तब कनमितो बालमन्दारवृक्षः ।। ८० ॥ वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा । हैमैः स्फीतॊ विक,कमलैर्दीर्घवैदूर्यनालैः ॥ तस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं । नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८१ ॥ तस्यास्तीरे विहितैशिखरः पेशलैरिन्द्रनीलैः। क्रीडाशैल: कनककदलीवेष्टनंप्रेक्षणीयः॥ मद्गहिन्याः प्रिय इति सखे चेतसा कातरेण । प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८२ ॥ तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी । मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।। श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां । या तत्र स्थायुवतिविषया सृष्टिराधे धातुः ।। ८३ ॥ तो जानीयाँः परिमितकथा जीवितं मे द्वितीयं । दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ॥ गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाली । जात मन्ये शिशिरमथिता पद्मिनीान्यरूपी ॥ ८४ ॥ भूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां । निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ॥ हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वात् । इन्दोर्दैन्यं त्वदुपसरणक्लिष्ट कान्ते. बिभर्ति ॥ ८५ ॥ रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः । प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।। एकः सख्यास्तव सह मया वामपादाभिलाषी । काङ्क्षत्यन्यो वदनमदिरां दौहृदच्छद्मनाऽस्याः ॥ ८६ ॥ तेन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि - । र्मूले बैद्धा मणिभिरनतिप्रौढवंशप्रकाशैः॥ तालैः शिवलयसुभगैः कान्तया नर्तितो मे । यामध्यस्ते दिवसविगमे नीलकण्ठः सुहृदः॥ ८७ ॥ एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथाः। द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्टा ।। क्षामच्छायं भवनमधुना मद्वियोगेन नूनं । सूर्यापाये न खलु कमलं पुष्यति १ सुरपतिध० । २ यस्योपान्ते । ३ °कविनतः । ४ स्यूता । ५ कमलमुकुलैः स्निग्धवै० । ६ यस्या०। ७नाधास्यन्ति, नाध्यायन्ति । ८ यस्या० ! ९ रचितशि, निचितशि । १० वेष्टनः । ११ तत्रास्ते । १२ तिविषये । १३ राद्यैव । १४ जानीया । १५ बालो। १६ जातां । १७ ०मथितां । १८ पद्मिनी वा । १९ न्यरूपां । २० प्रियाया । २१ हस्ते न्यस्तं । २२ त्वदनुस, त्वदुपगमन । २३ प्रत्यासन्नः। २४ दोहद, दोहल०। २५ तत्तन्मध्ये । २६ नद्धा । २७ शिअदः, सिञ्जद० । २८ नर्तितः कान्तया मे । २९ लक्षणीयं । ३० मन्दच्छायं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844