Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
( ६९४ )
वलयकुलिशोद्धट्टनोद्गीर्णतोयं । नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ॥ ताभ्यो मोक्षो यदि ते सखे धर्मलब्धस्य न स्यात् । क्रीडालोला: श्रवणपरुषै गर्जि"तैर्भीर्षैयेस्ताः ॥ ६३ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याऽऽ ददानः । कुर्वन् कामं क्षणमुखपटप्रीतिमैरावर्णैस्य ॥ धुन्वन्कल्पद्रुम किसलयान्यंशुकानि स्ववातैः । नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६४ ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां । न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।। या वः काले वहति सलि - लोगारमुच्चैर्विमाना। मुक्ताजालप्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६५ ॥ विद्युद्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः । सङ्गीतय प्रहृतमुरजी: स्निग्धपर्जन्यघोषम् ॥ अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिह्वाग्राः । प्रासादास्त्वां तुलयितुमलं यत्र तेस्तैर्विशेषैः || ६६ ॥ यत्र स्त्रीणां प्रियतमे भुजेोच्छ्रासितालिङ्गिताना- । मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ॥ त्वत्संरोधापगमविशदैरिन्दु पादैर्निशीथे । व्यालुम्पन्ति स्फुट जललवस्थन्दिनश्चन्द्रकान्ताः || ६७ ॥ त्युित्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः । लप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ मुक्ताजलैः स्तनपरिसेंरच्छिन्नसूत्रैश्च हारैः । नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ६८ || आनन्दोत्थं नयनसलिलं यत्र नाऽन्यैनिमित्तैः । नाऽन्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ॥ नाऽप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिः । वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ६९ ॥ यत्रोन्मत्तभ्रमरमुखरौः पादपा नित्यपुष्पाः । हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ॥ केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापाः । नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः || ७० || हस्ते लीलाकमलमल के बालकुन्दानुविद्धं । नीता लोध्रप्रसवजरसा १ ०जनितसलिलोद्वारमन्तः प्रवेशात्; मन्तः प्रवेशम् । २ मोक्षस्तव यदि । ३० श० । ४ मयियेस्ताः । ५० कामात् । ६ ०मैरावतस्य । ७ धुन्वन्वतैः सजलपृषतैः [ °नयनैः ] कल्पवृक्षांशुकानि । छायाभिन्नस्फटिकविशदं निर्विशेः पर्वतं तम् ॥ व्यान्यंशुकानीव वातैः । ८ शेः पर्वतं तम् । ९०चैविमानैः । १० सङ्गीतार्थप्र० । ११ ०हृतमुरवाः । १२ गम्भीरघो० | १३० भुजालिङ्गनोच्छ्रवाखितानां । १४ ०श्वन्द्रपादै० | १५ नव० । १६ गत्योत्कम्पा० । १७ पत्रच्छेदैः १८ कनकनलिनैः । १९ विसंसिभिश्च । २० मुक्ताभैः । २१ स्तनपरिमलैः । स्तनपरिचितच्छि० | २२ ० व्यन्यस्मात् । २३ ०५निकराः । २४ ०नुवेधो ।
;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844