Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
( ६९२ )
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४६ ॥ आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा । सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भज मानयिष्यन् । स्रोतोमूर्त्या भुवि परिणत रन्तिवेदस्य कीर्तिम् ॥ ४७ ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे । तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ॥ प्रेक्षिष्यन्ते गगनगतयो छैनमावर्ज्य दृष्टीः । एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४८ ॥ तामुत्तीर्य न परिचितभ्रूलताविभ्रमाणां । पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ॥ कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं । पात्रीकुर्वन्दशपुरवधूनेत्र कौतूहलानाम् ॥ ४९ ॥ ब्रह्मावर्ते जनपदर्भेथ च्छायया गाहमानः । क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ॥ राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा । धारापातैस्त्वमिव कमलान्यभ्यवर्ष - न्मुखानि ॥ ५० ॥ हित्वा छालामभिमतरसां रेवतीलोचनाङ्कां । बन्धुस्नेहात्समरविमुखो लाङ्गली याः सिषेवे ॥ कृत्वा तासामधिर्गममपां सौम्य सारस्वतीना - | मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५१ ॥ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णौ । जह्नोः कन्यो सगरतनयस्वर्गसोपानपङ्क्तिम् ॥ गौरीवेक्त्रेभ्रुकुटिरचना या विह॑स्येव फेनैः। शम्भोः केशग्रहण मकरोदिन्दुलग्नोर्मिहस्ता ।। ५२ ।। तस्याः पातुं सुरगज इव व्योम्नि वलम्बी । त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ संसर्पत्या सपदि भवतः स्र ेतसि च्छायया से । स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५३ ॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां । तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ॥ वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः । शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५४ ॥ त्वं ं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा । बाघेतोस्काक्षपितचमरीबालभारो दवाग्निः ॥ अर्हस्येनं शमयितुमलं वारिधारासह सै- । रापन्नार्तिप्रशमनफलाः
१ ० यैवं । २ दत्तमार्गः; दत्तवर्मा । ३ ०दूरमा । ४ ° पदमधश्छायया; मदुः, ५ ० न्यभ्यषिञ्चन्मु । ६ भूत्वा कृत्वा, छित्वा । ७ बन्धुप्रीत्या । ८ मभिगम । ९० त्वमसि । १० गौरीं व- । ११ वक्त्रे भ्रुकुटि । १२ ०स्यैव फेनैः; स्योच्चफेनैः । १३ ०पूर्वार्ध । १४ सन्तर्पन्त्या । १५०च्छाययासौ । १६ ०नोपनत | १७ मेनाभिरामा | १८ शुभ्रां शोभां त्रि-; रम्यां शोभां । १९ ०तं चेद्वायौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844