Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
( ६८७ )
APPENDIX-I
TEXT OF THE MEGHADUTA WITH VARIANT READINGS.
I
कश्चितकान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः । शापेनास्तं गमितमहिमा वर्ष भोग्येण भर्तुः ॥ यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु । स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥ तस्मिन्नद्रो कतिचिदत्रलाविप्रयुक्तः स कामी । नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः || आषाढस्य प्रथमदिवसे मेघमाश्लिष्टानुं । वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः । अन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ | मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चैतः । कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे || ३ || प्रत्यासन्ने नभैसि दयिताजीवीतालनार्थी । जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ॥ स प्रत्यमैः कुटेजकुसुमैः कल्पितार्घाय तस्मै । प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ धूमज्योतिः - सलिलमरुतां सन्निपातः क्क मेघः । सन्देशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः ॥ इत्योत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे । कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ||५|| जातं वंशे भुवनविदिते पुष्कलावर्तकानां । जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः || तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं । याच्या मोधों वरमधिगुणे नाऽधमे लब्धकामा ॥ ६ ॥ सन्तप्तानां त्वमसि शरणं तत् पयोदप्रियायाः । सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य || गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां । बाह्योद्यानस्थितहर शिरश्चन्द्रिका धौतहर्म्यं ॥ ७ ॥ त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः । प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादश्विन्त्यः ॥ कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां । न स्यादन्योऽप्येयमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥ तां चाऽवश्यं दिवसगणना तत्परामेकपत्नी । मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ॥ आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां । सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ ९ ॥
१ स्वाधिकारप्रमत्तः । २ प्रशमदिवसे । ३ केतकाधा । ४ तस्याश्लेष० । ५ मनसि । ६ ०नार्थाम्; ॰नार्थम् । ७ सम्प्रत्ययैः । ८° शार्थः । ९०गीयः । १० प्रणयकृ° । ११ पुष्करावर्त० । १२ वन्ध्या । १३०पतेः क्रोध० । १४०श्वसत्यः । १५०प्यह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844