Book Title: Parshvabhyuday
Author(s): Jinsenacharya, M G Kothari
Publisher: Gulabchand Hirachand Doshi
View full book text
________________
(६८८)
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां । वामश्चायं नदति मधुरं चातकस्ते सगन्धः ॥ गर्भाधानक्षणपरिचयान्नूनमा बद्धमालाः । सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १०॥ कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्यां । तच्छ्रुत्वा ते श्रवण सुभगं गर्जितं मानसोकाः ॥ आ कैलासाद्विमकिसकयच्छेदपाथेयवन्तः । सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं । वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।। काले काले भवति भवतो यस्य संयोगमेत्य । स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥ मार्ग मत्तः शृणु कथयतस्त्वत्प्रयाणानुरूपं । सन्देशं मे तदनु जलद श्रोष्यसि श्रव्यंबन्धम् ॥ खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र । क्षीणः क्षीणः परिलधु पयः स्रोतसा चोपभुज्य ॥ १३ ॥ अद्रेः शृङ्ग हेरैति पवनः किस्विदित्युन्मुखीभिः । दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।। स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं । दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥ रत्नच्छायव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् । वल्मीकापात्प्रभवति धनुःखण्डमाखण्डलस्य ॥ येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते । बहेणव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ स्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः। प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ॥ सद्यः सीरोत्कषणसुरभिक्षेत्रमारुह्य मालं । किञ्चित्पश्चा,ज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ त्वामासारप्रशमितवनौद्रवं साधु मू । वक्षत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ॥ न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय । प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननानैः । त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवणे ।। नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां । मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥१८॥ तस्मिने स्थित्वा वनचरवधूभुक्तकुञ्ज मुहूर्त। .
१ ०स्तोयगृधनुः ते सगर्वः । २ ०क्षमपण, स्थिरपरि० । ३ प्रेक्षिष्यन्ते । ४ 0न्ध्रात. पत्राम् । ५ भवता । ६ तावत् । ७ ०णानुकूलं । ८ श्राव्यव; श्रोत्रपेयम् । ९ ०पयुज्य । १० किंस्वित् । ११ वहति पवनः शृङ्गमित्यु । १२ दृष्टोच्छ्राय० । १३ ०वलेहान् । १४ ०च्छायाव्य। १५ ०मालप्स्यते ते। १६ भूविकारान। १७ °श्वात्प्रवलयगतिं भू०। १८ किञ्चिदेवोत्त०। १९ नोपप्लवं, °वनोपप्लवं । २० तथोच्चः । २१ सर्पवेणी । २२ स्थित्वा तस्मिन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844