________________
( ४५५ )
तत्। भोगिमूर्धन्यरत्नज्योतिश्चक्रम् - a prismatic circle formed by the lustre emanating from the head-jewel of a cobra de capello. भोगः a hood of a cobra. भोगः फणः अस्यास्तीति भोगी । नागराजः इत्यर्थः । मूर्धन्य - (1) formed in the head; ( 2 ) most excellent मूर्ध्नि भवं मूर्धन्यम् | The termination य is affixed to the word मूर्धन् under the rule ' देहङ्गात्' । मूर्धन्यानि च तानि रत्नानि मूर्धन्यरत्नानि । भोगिनः मूर्धन्यरत्नानि भोगिमूर्धन्य रत्नानि । तेषां । ज्योतिषां चक्रं समूहः इव चक्रं भोगिमूर्धन्य रत्न ज्योतिश्चक्रम् । प्रायेण - most probably. दिनकरकरा श्लिष्टमेघाश्रितं - resorting to the clouds intermixed with the rays of the sun. दिनकरस्य मेघस्य कराः मरीचयः दिनकरकराः । तैः आश्लिष्टः आक्रान्तः संश्लिष्टः दिनकर कर राश्लिष्टः । स चासौ मेघश्च । तमाश्रितं । तेन प्राप्तसंश्लेषसम्बन्धमित्यर्थः । The following extract from the work of Varahamihira, being very useful, is quoted below:- इन्द्रचापं किल बस्मीकान्तर्व्यवस्थितमहानागशिरोमणि किरणसमूहात् समुत्पद्यते । " सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः सा । वियति धनुःसंस्थानाः ये दृश्यन्ते तदिन्द्रधनुः । '
Stanza 59 - कुलिशकठिने — as hard as an adamont. कुलिशं वज्रमिव कठिनं कर्कशं कुलिशकठिनम् । तस्मिन् । प्रोच्छलद्रक्तधारम् - making blood gush out. प्रोच्छलन्ती बहिरुच्छलन्ती रक्तस्य रुधिरस्य धारा प्रवाहः येन यस्माद्वा हेतुभूतात् । ' धारा पङ्क्तौ द्रवद्रव्यस्रवेऽश्वगतिपञ्चके । खड्गादीनां मुखे सेनाग्रिमस्कन्धपुरान्तरे || भृङ्गारादेश्च नालायां धाराभ्यासे नुतावपि । हरिद्रानिशयोश्च ' इति विश्वलोचने । कथमपि - anyhow विद्युद्दण्डस्फुरितरुचिना - possessing the lustre of the flashes of lightning विद्युद्दण्डस्य दण्डाकारधारिण्याः विद्युतः स्फुरिता प्रज्वलिता या रुचिः तेजः विद्युद्दण्डस्फुरितरुचिस्तथा । यद्वा विद्युद्दण्डस्य स्फुरितं स्फुरणं विद्युद्दण्डस्फुरितम् । 'नब्भावे क्तोऽभ्यादिभ्यः' इति क्तः नप् च । तस्य रुचिस्तेजस्तया । भूयः - abundantly.
Stanza 60 - पिच्छोपाप्रप्रततिरुचिरं - assigning beauty owing to its construction like that of the hinder part of the eye of the peacock's feather. पिच्छस्य मयूरपिच्छस्य उपाग्रं अग्रोपान्तप्रदेश: पिच्छोपानम् । पिच्छोपाग्रस्य प्रततिरिव प्रततिः यस्य सः पिच्छोपाग्रप्रततिः । तथा रुचिरं मनोहरम् । यद्वा पिच्छोपाग्रस्येव प्रततिः विरचना पिच्छोपाग्रप्रततिः । तया रुचिरं शोभावहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org