________________
३६४
[ पार्श्वाभ्युदये
6
,
1
इतीयसौ प्रशस्यस्य श्रादेशः । मायैतेऽन्विष्यतेऽनेनेति मार्गः । श्रेयसः निःश्रेयसस्य मार्गः अन्वेषणसाधनभूतः संयमः श्रेयोमार्गः । भेदाभेदरत्नत्रयात्मको मोक्षमार्ग इत्यर्थः । मुनिवरैः संयमिश्रेष्ठैः । मुनीनां मुनिषु वा वराः श्रेष्ठाः मुनिवराः । तैः । 'देवावृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये ' इत्यमरः । सौख्यहेतोः निरुपधिसुखप्राप्त्यर्थम् । सुखमेव सौख्यम् । तस्य हेतोः । सुखप्राप्त्यर्थमित्यर्थः । ' हेतौ सर्वाः प्रायः ' इति ता । किल सम्भावनायाम् । 'किल त्वरुचौ वार्तायां सम्भाव्यानुनयार्थयोः ' इति विश्वलोचने । सेव्यते स्वीक्रियते । सौख्यं सुखं सुरयुवतिजं सुराङ्गना सम्भोगसमुत्पन्नं मुक्तिलक्ष्म्याश्रयं च मोक्षावस्थासमुत्पन्नं चेति । मुक्तिमोक्षः कृत्स्नकर्मविप्रमोक्षलक्षणः । सैव लक्ष्मीरमानुषमनन्तं वीर्यादिकं । सैव आश्रयः यस्य तत् । द्वेधा द्विप्रकारम् । दूरे स्थलकालापेक्षया सुरयुवतिसम्भोगजसुखापेक्षया च दवीयसी । मुक्तिः कर्मबन्धव्यपगमजनिता शुद्धावस्थाऽनन्तसुखप्रसूः । इतरत् मुक्तिसुखादन्यत्सुरयुवतिसम्भोगजनितं सुखं सुलभं अकृच्छ्रलभ्यम् । सेव्यं सेवनार्हम् । सेवितुं योग्यं, न त्याज्यमित्यर्थः । अन्यः अपि त्वत्तो भिन्नस्त्वत्सजातीयोऽपि मुनिवरः रामगिर्याश्रमस्थः रामगिरिपर्वतस्थाश्रमनिवासः । रामगिरौ य आश्रमस्तत्र निवसनशील इत्यर्थः । तव भवदीयः विद्वान् ज्ञानी सहचरः सतीर्थ्यः मुनीन्द्रः एवं सुरयुवतिजं सुखं सुलभं सेव्यं चेत्येवं ब्रूयात् कथयिष्यति । मुक्तिसङ्गमजनितसुखस्य दवीयस्त्वात्साक्षादनुभूयमानत्वासम्भवान्निरतिशयायाससाध्यत्वाच्च तत् परित्यज्य त्वया सुरयुवतिजसुखस्थानायाससाध्यत्वात्साक्षादत्रैव भवे शीघ्रमनुभवितुं शक्यत्वादपायापायाच्च तदेव त्वया सेवनीयमिति कमठचरशम्बरासुराभिप्रायः ।
The way to final beatitude is pursued by the greatest of sages verily for the sake of attaining pleasure. Pleasure is divided into two varieties, the first of which is attained through heavenly damsels while the other is inherent in the superhuman power in the form of salvation. Salvation is far away. The other one is very easy to attain [and] worthy of being enjoyed. Even another person, a learned companion of yours, residing in a bermitage situated on the mountain, Ramagiri by name, also will proclaim thus.
विद्युद्वल्लीविलसितनिभाः सम्पदश्चञ्चलत्वात्
लब्धाभोगाः नियतविपदस्तत्क्षणादेव भोगाः । तस्माल्लोकः प्रणयिनि जने स्थास्नुभावव्यपायात् अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org