________________
३६८
[ पार्श्वाभ्युदये
6
"
पूर्वजन्मप्रिया प्राग्भवीया कान्ता । प्राचीनभवसम्बन्धिनी कान्तेत्यर्थः । सा एषा बाला, नवयौवनाऽङ्गना आयाता सम्प्राप्ता । पश्य विलोकस्व । सा तनुना विरलेन i कृशेनेत्यर्थः । तनुः केशेऽपि विरले स्वस्पमात्रेऽपि वाच्यवत् ' इति विश्वलोचने । गाढतसेन नितान्तं सन्तप्तेन । 'तीत्रैकान्तनितान्तानि गाढवाढदृढानि च' इत्यमरः । सास्त्रेणा साश्रुणा । 'अस्रमश्रु च इत्यमरः । उत्कण्ठितेन सञ्जातस्वानन्दजन - नचञ्चुशरीरान्तरप्राप्त्यभिलाषेण स्वेन अङ्गेन शरीरेण तनु कृशं । विरहजनितकार्यमित्यर्थः । तप्तं उदीर्णशृङ्गाररसत्वेन समुत्पन्नमदनज्वरं अस्त्रद्रवं विरहदुःखजनितगलदश्रुजलक्लिन्नम् । अस्राणां द्रवः अस्रद्रवः । सोऽस्यास्तीति अलद्रवम् । 'ओऽभ्रादिभ्यः' इति मत्वर्थीयोऽप्रत्ययः । अविरतोत्कण्ठं स्वानन्दजनननिपुणशरीरान्तरप्राप्त्यर्थं सततं तीव्राभिलाषाकुलं ते अङ्गं शरीरं रहसि एकान्ते परिरभ्य आलिङ्ग्य त्वां 'भवन्तं अनुमोदं प्रमोदं नयेत् नेष्यति । प्रापयिष्यतीत्यर्थः ।
Look, this female, in the prime of her youth, referred-to just before, your beloved of the former birth, has arrived. She will give you pleasure by embracing with (her ) body emaciated, greatly heated, possessing drops of tears [ fallen upon it from her eyes], having longing produced [ for a person beloved to itself ], [your] body which is thin, heated, having a flow of tears [ droppidg down from your eyes] and having incessant longing produced [ for a person beloved to itself ].
दूरगाढप्रणयदिवसो मन्मथेनाऽतिभूमि
नीतो विभ्यत्वदभिसरणादुत्सुकः स्त्रीजनस्त्वाम् | उष्णोछ्रासं समधिकतरोच्छ्रासिना दूरवर्ती
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ २६ ॥
अन्वय :- दूरगाढ प्रणय दिवसः, समधिकतरोच्छासिना मन्मथेन अतिभूमिं नीतः, त्वदभिसरणात् विभ्यत्, उत्सुकः, दूरवर्ती, वैरिणा विधिना रुद्धमार्गः स्त्रीजनः उष्णोच्छ्रासं त्वां तैः सङ्कस्पैः विशति ।
दूरेत्यादि । दूरागाढप्रणय दिवसः आप्रणय दिवसाद्व्यती तदीर्घकालः । प्रणयस्य प्रेमाराधनस्य दिवसः । प्रणयदिवसः । दूरे दूरभूते परोक्षातीतकाले आमादः निमग्नः दूरागाढः।दूरागाढः प्रणयदिवसः यस्य सः। समधिकतरोच्छ्वासिना समधिकतरः उच्छासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org