________________
चतुर्थः सर्गः]
३७७
अनादरी । अभूत् भवति स्म । यत् च यतश्च अनुकमितां बद्धप्रीति । कामिना बद्धानुरागामित्यर्थः । प्रणयकुपितां प्रणयक्रियायां सञ्जातकोपाम् । कृतालीककोपामित्यर्थ । प्रेयसी वा दयितामिव त्वां भवती। तपोलक्ष्मीमित्यर्थः । धातुरागैः धातुरागसदृशैः सानुरागैः मानसैः परिणामैः । धातुरेव गैरिकादिरेव रागः लोहितवर्णः धातुरागः। धातुरागः इव धातुरागः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । 'धातुः क्रियार्थे शुक्रेऽपि विषयेष्विन्द्रियेषु च । श्लेष्मादिरसरक्तादिभूतादिवसुधादिषु ॥ मनःशिलादिके लोहे विशेषाद्वैरिकेऽस्थिनि' 'रागोऽनुरागमात्सर्ये क्लेशादौ लोहितादिषु । गान्धारादौ नृपे नागे' इत्युभयमपि विश्वलोचने । यद्वा धातोरात्मनः रागैः अनुरागः । अनुरागरूपैः परिणामैरित्यर्थः । चेतोमय्यां मनोनिर्मितायाम् । 'मयड्वाऽभक्ष्याच्छादने' इति विकारे मयट् । मनसा निर्मितायामित्यर्थः । शिलायां शिलासदृश्यां मनोभूमिकायाम् । शिलापट्टकसदृशे मनोनिर्मित पट्टके इत्यर्थः। शिलेव शिला । तस्याम् । 'देवपथादिभ्यः' इत्यनेन 'इवे खुप्रतिकृत्योः कः' इत्यनेन विहितस्येवार्थस्य कस्योस् । आलिख्य मनसि चित्रयित्वा । त्वत्प्रतिकृति मनसि विनिर्मायेत्यर्थः । ध्यायति स्मृतिविषयतां नयति । यथा कश्चित्प्रणयी प्रणयक्रीडायां कृतकृतककोपां दूरीभूतां प्रेयसी गैरिकादिपार्वतेयरञ्जनद्रव्यैः शिलापट्टके चिलिख्य तां ध्यायति तथाऽयं योगीश्वरः चेतोनिर्भिते शिलापट्टकेऽनुरागरूपैर्मानसैः परिणाभैश्चिन्तयित्वाऽमाध्वीमपि तां तपोलक्ष्मी शश्वद्ध्यायतीत्यर्थः । तादृशीमपि तां ध्यायतो योगिनो मूर्खतां धिगास्त्विति 'वधूसार्थस्याभिप्रायः ।
Ah ! fie upon the stupidity of the sage ) ! for this sage, not knowing you to be ill-behaved, has become constantly attached to you and does not show favour to us; [ and ] having painted you on a slab of stone in the form of the modification of his mind by means of feelings full of love resembling to the mineral dyes, like a beloved [ loved by her lover and ] enraged while dallying.
भो भो साधो मम कुरु दयां, देहि दृष्टिं, प्रसीद,
प्रायः साधुर्भवति करुणार्दीकृतस्वान्तवृत्तिः । योगं तावच्छिथिलय मनाक् प्रार्थनाचाटुकारैः
• आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ॥ ३३ ॥ अन्वयः- भो भो साधो ! प्रसीद, मम दयां कुरु, दृष्टिं देहि । साधुः प्रायः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org