________________
३८८
[पार्धाभ्युदये
During the period when the excessive force of passion excessively distresses by causing anxieties, [ my mind ] becomes attached to and absorbed in meditating upon you, possessing beautiful eyes. My mind, thus, reduced to this two-fold state, praying for what is difficult to obtain, is rendered helpless by exceedingly poignant [ sharp ] agonies caused by the separation from you.
तानप्राक्षं मदनविवशा युष्मदीयप्रवृत्ति
प्रत्यावृत्तान् हिमवदनिलान् कातरा मत्समीपम् । भित्त्वा सद्यः किसलयपुटान्देवदारुद्माणां
ये तत्क्षीररुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ ४२ ॥ अन्वयः- देवदारुद्रुमाणां किसलयपुटान् सद्यः भित्त्वा तत्क्षीरसुतिसुरभयः ये दक्षिणेन प्रवृत्ताः तान् मत्समीपं प्रत्यावृत्तान् हिमवदनिलान् मदनविवशा कातरा [ अहं] युष्मदीयप्रवृत्ति अप्राक्षम् ।
तानित्यादि । देवदारुद्माणां पारिभद्रकवृक्षाणाम् । तदुक्तं - 'देवदारु स्मृतं दारु सुराहवं किलिमं च तत् । स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च ॥ देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं च दारु च । सुरदाविन्द्रवृक्षश्च तथैवामरदारुच ॥' इति । 'शक्रपादपः पारिभद्रकः । भद्रदारुद्रुकिलिमं पीतदारु च दारु च। पीतकाष्ठं च सप्त स्युर्देवदारुण्यथो द्वयोः' इत्यमरः। किसलयपुटान् प्रवालगर्भान् सधः सपर्दि 'सद्यः सपदि तत्क्षणे' इत्यमरः । भित्त्वा विदार्य तत्क्षीरस्रुतिसुरभयः तत्क्षीरनिष्यन्दजनितसौगन्ध्याः । तेषां देवदारुद्रुमाणां क्षीरसुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । अत्र क्षीरशब्दोऽर्कदुग्धववृक्षनिर्यासवचनः । ये हिमवदनिलाः दक्षिणेन दक्षिणमार्गेण । 'प्रकृत्यादिभ्यः' इति भा। प्रवृत्ताः प्रचिलताः तान् अनिलान् मत्समीपं मत्समीपप्रदेशं प्रत्यावृत्तान् प्रत्यागतान् हिमवदनिलान् प्रालयाचलसम्बन्धिनो वातान् मदनविवशा मदनेन हेतुनानात्मवती कातरा ससाध्वसा। 'अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः' इत्यमरः । अहं युष्मदायप्रवृत्तिं भवसम्बन्धिनं वृत्तान्तम् । 'प्रवृत्तिवृत्तिवृत्तान्तप्रवाहेषु प्रवर्तने' इति विश्वलोचने । अप्राक्षं अपृच्छम् । प्रच्छ शीप्सायामित्यस्य धोलुङि रूपम् ।
I, having control over myself lost owing to the god of love [ or owing to the feelings of love ] (and) tremulous through fear [ or discouraged ], asked the breezes from the Himalayas, on having destroy
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org