________________
३४६
[पार्धाभ्युदये वा किंवा जीवन्मतक प्राणिगणैः ध्यानविषयता नीतः। किः । जीवद्भिः मतः जीवन्मतः । जीवन्मतः एव जीवन्मतकः । तस्य किः । अङ्गनानां स्त्रीणां । ' स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना' इति धनञ्जयः । अङ्गसङ्गात् शरीरस्पर्शात् भवतः अपि तवाऽपि भीः भयं अस्ति किम् विद्यते किम् । निस्सङ्गस्य भयोत्पत्तिकारणासम्भवात्तव निस्सङ्गस्य नारीशरीरस्पर्शजनितेन भयेन न कदापि भाव्यमिति भावः । इमे अत्रत्याः योधमुख्याः वीराग्रण्यः । योधानां मुख्याः प्रधानाः योधमुख्याः । युद्धे युद्धं जेतुं मतिं कृत्वा निर्णयं विधाय । कण्ठच्युतभुजलताग्रन्थि कण्ठप्रदेशविरचितलताकारभुजबन्धनं। कण्ठे च्युता विरचिता भुजलतयोः ग्रन्थिः बन्धनं यस्मिन् । तत् । गाढोपगूढं गाढालिङ्गनं । गाढं च तदुपगूढं च गाढोपगूढं । उपगूढं उपगृहनम् । आलिङ्गनमित्यर्थः । 'नभावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । सद्यः झटिति ननु निश्चयेन । 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु' इत्यमरः । विदधति कुर्वन्ति । युद्धे कृतमतयोऽपि योधमुख्याः मृतिभीतिमपसार्याङ्गनालिङ्गनसङ्गतमानसिकभावतरङ्गसङ्गाः भवन्ति, तव तु मरणोत्तरकालेऽङ्गनाङ्गालिङ्गनप्राप्तेरवश्यम्भावित्वान्मरणभयमपसार्यमेव, अन्यथा निस्सङ्गस्याऽपि तेऽङ्गनाङ्गसङ्गभयं भवतीति दोषः आपतेत् । अतस्त्वयावश्यमेव युद्धसन्नद्धेन भाव्यमिति शम्बरासुराभिप्रायः ।।
Well, sir ! you are altogether free from attachment to worldly ties. In this world there is nothing that could excite fear in you. Osir ! are you, reverd by all living beings, also afraid of coming into contact with the bodies of women ? Verily these, the best of warriors, having made their mind for battle, verily give suddenly close embraces ( to their beloved wives ), having ties formed with their creeper like arms round necks ( of their beloved wives).
लक्ष्मी क्षीणां स्ववपुषि सतीमुद्यमाख्येन दोषा
प्रोत्थाप्याऽलं भव युघि सतामाश्रितानुग्रहोऽर्थः । शंसन्तीदं ननु नवधना धर्मतप्तक्षतां मां
प्रोत्थाप्यैनां स्वजलकणिकाशीतलेनाऽनिलेन ॥९॥ अन्वयः- स्ववपुषि सती क्षीणां लक्ष्मी उद्यमाख्येन दोषा प्रोत्थाप्य युधि अलं भव । नवघनाः धर्मतप्तक्षतां एनां मां स्वजलकणिकाशीतलेन अनिलेन प्रोत्थाप्य 'आश्रितानुग्रहः सतां अर्थः ' [ इति ] इदं ननु शंसन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org