________________
३५८
[ पार्धाभ्युदये
वनतस्तले । अत्र वनतरोरनेतनभागे इत्यर्थो न विवक्षितः, वृक्षाधोभागस्थितमैथिल्योपमितत्वात्तस्याः वीरश्रियः । अतस्तस्थ मुख्यार्थं बाधित्वा तरुतलरूपस्ताक्तः प्रदेशोऽत्र लक्षणया ग्राह्यः । आस्ते तिष्ठति ला त्वदभिलाषाकुलमनस्का वीरश्रीः श्रीरिव श्रीः। वीराणां श्री वीरश्रीः। आख्याते लोकपुराणप्रसिद्ध दशेमुखपुरोद्यानवृक्षे लङ्कानगडंपवनवृक्षतले । तच्छायायामित्यर्थः । दश दशसङ्ख्याकानि मुखानि वदनानि यस्य सः दशमुखः । रावण इत्यर्थः । बहुरूपिणीविद्यासम्पन्नत्वाद्रावणस्य दशाननत्वं पुराणप्रसिद्धम् । तस्य पुरं लङ्का नाम राजधानी। तस्योद्यानवृक्ष उपवनतरोधस्तनप्रदेशे। अत्रापि मैथिल्यास्तर्वधस्तनप्रदेशस्थितेः पुराणे प्रसिद्धत्वादस्य पदस्य लक्षणया वृक्षाधस्तनप्रदेशरूपोऽर्थों ग्राह्यः । पवनतनयं पवनञ्जयमहाराजात्मजं कामदेवं हनूमन्तं विलोकयन्ती उन्मुखी उकामितमुखी । बन्दिग्राहं गृहीताया मैथिल्यास्स्वमुक्तिविचाराक्रान्तत्वादधोमुख्या हनूमद्दर्शनार्थम्मुखोन्नमनमभिप्रेत्योन्मुखीति वचनमत्र समीचीनमेव । 'स्वाङ्गान्त्रीचोऽस्फोङः' इति स्त्रियां की। उद्गतं मुखं यस्याः सोन्मुखी। सती साधुशीला । एकपत्नीत्वात्तस्याः सतीत्वम् । मैथिली इव मिथिलाधिपतेरपत्यं स्त्रीव । मिथिलेश्वरकन्या सीतेत्यर्थः । सेव । स्यात् भवति । इति अनेन प्रकारेण । युद्धशौण्डः युद्धे प्रसक्तः शौण्डः । 'ईप् शौण्डादिभिः ' इतीबन्तस्थ युद्धपदस्थ शौण्डेन सह षसः । युद्धे प्रवीणः इत्यर्थः । युद्धप्रसक्तमतिः स शम्बरासुर इति भावः । सः कमठचरोऽसुरः पुनरपि मुनि पार्श्वजिनेन्द्रं अभणीत् भणति स्म ।
. He, thinking thus, excessively fond of combating [ or skilled in fighting ], spoke again to the sage thus - the superhuman power resembling Laxmi, of the brave, freed from the tortures causing disturbance in mind [ or caused by the god of love ], looking at you from beneath a sylvan tree where sbe is sitting, resembles the chaste woman, Sita [ the daughter of the king of Mithila ], looking, with her face raised, at the son of Pavana ( Hanuman), from beneath a welknown tree grown in the garden of the city of the ten-faced one [ i. e. Ravana], where she sat.
सङ्ख्ये सङ्ख्यां सुभटविषयां पूरयन्नस्मदीये
हित्वा भीतिं त्वमधिशयितो वीरशय्यां यदा स्याः। प्रत्यासीदत्यपिहितरसा वीरलक्ष्मीस्तदैषा
त्वामुत्कण्ठोच्छसितहृदया वीक्ष्य सम्भाव्य चैव ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org