________________
३५०
[पार्धाभ्युदये इत्यमरः। द्यां सुरलोकं । 'सुरलोको द्योदिवौ'इत्यमरः आरोहन आरोहणं कुर्वन् । स्वर्गारोहणं कुर्वाणः इत्यर्थः । सहजमणिभाभूषितः उपपादशय्यायां जन्मकाले एव जातानां मणीनां भाभिः अ॒तिभिः भूषितः। सह जाताः जन्मकाले शरीरेण सह प्रादुर्भूताः ये मणयः तेषां भाभिः दुतिभिः भूषितः समलतः । देवानां यदा उपपादशय्यायां जन्मभवति तदैव तच्छरीरालङ्करिष्णूनि भूषणान्यपि सम्भवन्तीति जैनसमयः । त्वं पार्श्वः। विद्युद्गर्भ प्रकृष्टतेजस्विनि । द्योतते इति द्युत् । विशिष्टा चासो द्युत् च विद्युत् । प्रकृष्टं तेजःइत्यर्थः। विद्युत् गर्भः अन्तस्थः यस्य तद्विद्युद्गर्भ । तस्मिन् । प्रकृष्टतेजोयुक्ते इत्यर्थः। याने वाहने । विमाने इत्यर्थः । ईयते गम्यतेऽनेनेति यानं । देवयानस्य विमानरूपत्वाद्यानशब्दस्य विमानपर्यायत्वेनाऽत्र ग्रहणम् । गवाक्षे विमानावयवभूते जालके त्वत्सनाथे सति त्वया सहिते सति । 'सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि' इति शब्दाणेवे । स्तिमितनयनां त्वद्रपावलोकनजनितविस्मयाङ्कितस्वान्तत्वाद्वीतचाञ्चल्यनयनां । 'स्तिमितं वीतचाञ्चल्येऽप्याद्रीभूतेऽपि वाच्यवत् ' इति विश्वलोचने । 'स्तिमितो निश्चलाईयोः' इति मेदिन्याम् । काञ्चित् काञ्चन सुरवधू देवाङ्गनां आपूर्णकामां सम्पूर्णाभिलाषां । सफलेच्छामित्यर्थः । कुरु विधेहि । यदर्थ त्वं तपः कुरुषे सा देवाङ्गना मद्धतिहतिजनितमरणेन प्राप्तस्वर्गावासेन त्वया स्वयमेव सङ्गमेष्यतीति त्वयावश्यमेव युद्धसन्नद्धेन भाव्यमिति शम्बरासुराभिप्रायः ।
O cloud I coming into antagonism with me in the van of battle, you, seeing my heroic achievements [ or undergoing pain of wounds (inflicted by my sword)], with the duration of your life come to an end, attaining heaven, decorated with the lusire of jewels come into being in conjunction with you, should reduce a certain celestail woman with her eyes fixed upon a window, occupied by you, of a vibicle shining with lustre, to a state of complete satisfaction or to a state of her passion being completely satisfied ].
यद्येतत्तेऽध्यवसितमतिप्रौढमानोद्धरस्य
ध्यानाभ्यासं शिथिलय ततो योद्धकामो निकामम् । अस्युत्खातः पटुतरगिरं प्रोज्झ्य वाचंयमत्वं
वक्तुं धीरं स्तनितवचनो मानिनी प्रक्रमेथाः॥१२॥ अन्वयः---- यदि अतिप्रौढमानोद्धरस्य ते एतत् अध्यवसितं ततः निकामं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org