________________
चतुर्थः सर्गः ]
३५३
यद्वा क्षीणशरीरे इत्यर्थोऽप्यत्र ग्राह्यः । पादस्पृष्टया चरणस्पर्शनेन । पादयोः स्पृष्टिः पृक्तिः पादस्पृष्टिः । पादस्पर्शनमित्यर्थः । तया । शपथयति वा शपथं कुर्वति वा । शपथं करोति शपथयति । 'मृदो ध्वर्थे णिज्बहलम् ' इति शपथशब्दाद्ध्वर्थे णिचि शतृत्यः । यदि चेत् जातु कदाचित् । 'कदाचिज्जातु' इत्यमरः । शस्त्रं अस्त्रं स कश्चित् स क्षुद्रोऽहं वावहीमि अत्यर्थं पौनःपुन्येन वा वहामि धारयामि । 'धोर्यङ् भृशाभीक्ष्णेऽशुभचेः' इति भृशार्थे पौनःपुन्यार्थे वा यङ् । तस्य च 'यङ उप्' इत्युप् । अत इदं यकुबन्तरूपम् । तर्हि भतुः राजराजस्य कुबेरास्यस्य स्वामिनः प्रिय मित्रं हितं सखायं अम्बुवाहं अम्बुवाहाकारधरं शम्बरासुरं। अम्बु वहतीति अम्बुवाहः । मेघः इत्यर्थः। अम्बुवाहः इव अम्बुवाहः । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । तम्। मां शम्बराभिधं कमठचरमसुरं हिंसा भुजिभ्यं हिंसादोषभाज। भुङ्क्ते इति भुजिष्यः । सेवमानः इत्यर्थः । विद्धि जानीहि इति अभिदधे इति ब्रवीमि । हिंसादोषभयादशस्त्रपाणौ त्वयि नाहं शस्त्रं वोढुमिच्छामि । अतो युद्धसन्नद्धो भवेति भावः।
If at all, in the case of the frightened, of the one who is looked upon as a soldier having no weapon or of the one who considers himself to be a woman, of the one fallen down at the feet, of the one swearing a solemn oath by touching feet, I, the contemptible one, wield a weapon, then I say that you should hold me, a cloud, the dear friend of the lord ( i. e. Kubera ), guilty of assassination.
तन्मा भैषीविहतगरिमा हस्तमुत्क्षिप्य पादा
वाश्लिष्य त्वं मम यदि च ते जीवनेऽस्त्युत्सुकत्वम् । किश्चित्प्रीत्यै प्रिययुवतितो माऽन्यथा त्वं गृहीमा .. तत्सन्देशैर्मनासि निहितैरागतं त्वत्समीपम् ॥ १४ ॥
अन्वयः-- प्रिययुवतितः प्रीत्यै यदि जीवने ते किञ्चित् उत्सुकत्वं अस्ति तत् त्वं हस्तं उत्क्षिप्य मम पादौ आश्लिष्य विहतगरिमा मा भैषीः । मनसि निहितैः तत्सन्देशः त्वत्समीपं आगतं मां त्वं अन्यथा मा गृहीः ।
तदित्यादि । प्रिययुवतितः प्रिययुवत्याः । प्रिया चासौ युवतिश्च प्रिययुवतिः। तस्याः । 'यूनस्तिः ' इति युवन्शब्दास्त्रियां तिः । 'पुंवद्यजातीयदेशीये' इति पुंवद्भावः । अत्र तसिः कार्थे तार्थे वा, तसेः सार्वविभक्तिकत्वात् । प्रीत्यै प्रमोद
पार्श्वभ्युदये...२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org