________________
२०२
[ पार्श्वभ्युदये
तस्याः भागीरथ्याः अच्छस्फटिकविशदं निर्मलस्फटिकवट् विशुद्धं । अच्छः निर्मलश्वासौ स्फटिकश्च अच्छस्फटिकः । तद्वत् विशदं विशुद्धं । 'सामान्येनोपमानं' इति सः। हेतुगर्भविशेषणमेतत् । तेनाच्छस्फटिकविशुद्धत्वाद्धेतोरित्यर्थः । भूरि विपुलं अम्भः जलं तिर्यक् तिरश्चीनं यथा स्यात्तथा प्रपातुं पातुं तर्कयेः मनसि कुर्याश्चत् यदि, तदानीं तस्मिन्काले । तीत्यर्थः । मध्येगा गङ्गायाः मध्ये मध्यभागे । 'पारमध्येऽ न्तस्तया' इति हसः । हृदं हृदेऽगाधजले । 'तत्रागाधजलो हृदः' इत्यमरः ।अधिवसेः तिष्ठ । ' वसोऽनूपाध्याङः' इति ईबाधारे ।
. If you would not be distressed by the strong desire to drink water (or by excessive thirst and ) if you, having the fatigue of your journey removed by keeping silence for a moment, pouring showers of rain, would make up your mind to drink in a slanting manner abundent water of her (the Ganges ) on account of its being pure like transparent crystal, settle yourself, then, on the large and deep pool of water occupying the centre of the Ganges.
तिष्ठत्वेकं क्षणमिव भवानिन्द्रनीलस्य लक्ष्मी
मातन्वानः स्ववपुषि भृशं पीततोयोऽपि येन । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥५६॥ अन्वय :- स्ववपुषि इन्द्रनीलस्य लक्ष्मी आतन्वानः भवान् भृशं पीततोयः अपि एक क्षणं इव तिष्ठतु येन स्रोतसि सपदि संसर्पन्न्या भवतः छायया सा अस्थानोपगतयमुनासङ्गमा इव अभिरामा स्यात् ।
तिष्ठत्वित्य दि । स्ववपुषि स्वशरीरें। स्वस्य आत्मनः वपुः शरीरं स्ववपुः । तस्मिन् । इन्द्रनीलस्य नीलवर्णमणिविशेषस्य । इन्द्रः इव नीलः इन्द्रनीलः । अत्र नीलशब्दः कृष्णवर्णार्थः ग्राह्यः मेघस्य जलप्रपूर्णस्य कृष्णत्वात् । 'कृष्णे नीलाऽसितश्यामकालश्यामलमेचकाः' इत्यमरः । गारुत्मताख्यमणेरित्यर्थः । लक्ष्मी शोभां तेजो वा । 'लक्ष्मीः श्रीरिव सम्पत्तौ पद्माशोभाप्रियङ्गुषु' इति विश्वलोचने । आतन्वानः विस्तारयिता विरचयन् वा । भवान् त्वं भृशं अत्यर्थ पीततोयः अपि पीतपानीयः अपि । पीतं सेवितं तोयं पानीयं येन सः । एक क्षणं इव क्षणमात्रं तिष्ठतु अग्रतः गमनात् विरमतु येन क्षणमात्रं यावदवस्थानेन स्रोतसि गङ्गानदी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org