________________
तृतीयः सर्गः]
२८३.
वृष्टिं जनयन्ति तथा मदोद्भेदात्करिणोऽपि मदवृष्टिं जनयन्तीति भावः । शैलोदप्राः अलवदुनतशरीराः। शैलवदुदग्राः उन्नताः शैलोदग्राः। मन्दाक्रान्ताः. मन्दमन्दगतवः । मन्दं आक्रान्तं आक्रमणं गमनं येषां ते मन्दाक्रान्ताः । 'नभावे क्तोऽभ्यादिभ्यः' इति भावे नम्। करिणः गजाः दिगिभविमुभिः दिग्गजश्रेष्ठैः । दिगिभाः दिग्गजाः एव विभवः दिगिभविभवः । तैः। उच्चैः अत्यर्थ स्पर्धमानाः स्पधी कुर्वन्तः । सन्तीति शेषः । तुल्यबलादिभिर्विरोधः स्पर्धा ।
Where the horses, with their foreparts moving and the hoops. attaining a high speed ( at full speed ), having as if dislike for touching the earth, dark-green like leaves, claim to be as good as the horses of the sun, and the elephants, resembling you pouring showers of rain. on accouut of your being dashed against the others, owing to their rut flowing down on acconnt of their being in rut, lofty like mountains, slow of paco, rival as if very much with the lords of elephants presiding over the quarters.
मन्ये तेऽपि स्मरपरवशाः कामिनीदृष्टिबाणे
र्जायेरन्ये त्वमिव मुनयो धीधना यत्र केऽमी । योधागण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥९॥ अन्वयः- यत्र अन्ये मुनयः ये त्वं इव धीधनाः ते अमी कामिनीष्टिबाणैः स्मरपरवशाः जायेरन् (तत्र) चन्द्रहासत्रणाङ्कः प्रत्यादिष्टाभरणरुचयः संयुगे प्रतिदशमुखं तस्थिवांसः अमी योधाग्रण्यः के ?
मन्ये इत्यादि। यत्र वैश्रवणराजधान्यामलकापुर्या अन्ये इतरे मुनयः तपोधनाः ये त्वं इव भवानिव धीधनाः ज्ञानसम्पदः । धीः ज्ञानमेव धनं येषां ते धीधनाः । ते अमी कामिनीष्टिबाणैः कामिनीकटाक्षबाणैः । कामिनीनां कामाकुलानां स्त्रीणां दृष्टयः कटाक्षा कामिनीदृष्टयः। ताः एव बाणाः इष वस्तैः । स्मरपरवशाः कामाकुल चित्ताः। स्मरस्य कामस्य परवशाः वशंगताः। जायेरन् भवेयुः तत्र चन्द्रहासव्रणाः दशमुखखड्कृतव्रणचिह्नितः । चन्द्रहासस्य रावणस्वाभिकखङ्गस्य खडसामान्यस्य व्रणाः चन्द्रहासत्रणाः । ते एव अङ्काः चिह्नानि येषां ते । तैः । 'चन्द्रहासो दशग्रीवखड़े खड़े च दृश्यते' इति विश्वलोचने । प्रत्यादिष्टाभरणरुचयः परित्यक्तालङ्कारकाङ्क्षाः ।
Jain Education International
For Private & Personal Use Only
wwww.jainelibrary.org