________________
२९६
[ पार्धाभ्युदये
भवन्तं स्मरन्ती स्मृतिविषयता नयन्ती सा वसुन्धराचरी किन्नरी सजलनयना अश्रुजलाविलनयना दृष्टा मया विलोकिता ।
She, for the sake of whom we both of us had come into antagonism with each other in the former birth, sprung from a Kinnara family ( or born as one belonging to the race of Kinnaras), now dwells there. She, of a thin waist (or thin in the middle ), having eyes resembling those of a frightened deer, possessing a deep navel, pining with love, remembering you, a noble ( or a beautiful) one, was found by me with her eyes become full with tears ( i. e. was found in tears ).
दृष्टा भूयः स्मरपरवशा चन्द्रकान्तोपलान्ते
ध्यायन्ती त्वां सहसहचरं सन्दिदृक्षुलिखित्वा । यान्ती तस्मान्नयनसलिलैदृष्टिमार्गे निरुद्धे ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् ॥ २० ॥ अन्वयः- श्रोणीभारात् अलसगमना, स्तनाभ्यां स्तोकनम्रा, स्मरपरवशा, सहसहचरं त्वां सन्दिदृक्षुः चन्द्रकान्तोपलान्ते लिखित्वा ध्यायन्ती नयनसलिलैः दृष्टिमार्गे निरुद्धे तस्मात् यान्ती (सा) भूयः दृष्टा ।
दृष्टेत्यादि । श्रोणीभारात् नितम्बगौरवजनितभारात् अलसगमना मन्दमन्दगतिः। अलस मन्दं गमनं यस्याः सा । स्तनाभ्यां उरोजाभ्यां । अविरलकुचाभ्यामित्यर्थः । स्तोकनम्रा ईषदवनतपूर्वकाया । स्तोकमीषत् नम्रा नतपूर्वकाया स्तोकनम्रा । स्मरपरवशा निधुवनसेवनाशावशा । स्मरस्य कामस्य परवशा अधीना स्मरपरवशा। कामवासनाधीनचेतस्का इत्यर्थः । सहसहचरं समित्रं । सहचरेण सहितः सहसहचरः । तम् । 'वा नीचः' इति सकारादेशस्य वैकल्पिकत्वात् सहशब्दश्रवणं यथापूर्वम् । त्वां भवन्तं सन्दिदृक्षुः सन्द्रष्टुमिच्छुः । 'तुमीच्छायां धोर्वोप्' इति सनि 'सन्भिक्षाशंसादुः' इत्युः। चन्द्रकान्तोपलान्ते चन्द्रकान्तोपलपृष्ठे । लिखित्वा रेखाभिः त्वदाकारं निर्माप्य ध्यायन्ती विलोकयन्ती नयनसलिलैः विरहदुःखजनितनयनाश्रुजलैः दृष्टिमार्गे दृक्पथे निरुद्धे संवृते सति । 'यद्भावाद्भावगतिः' इति ईप् । तस्मात् चन्द्रकान्तपाषाणात् यान्ती निष्कामन्ती सा भूयः दृष्टा सा वसुन्धराचरी किन्नरी वारंवारं मया नयनातिथितां नीता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org