________________
३०६
[ पार्श्वभ्युदये इत्यर्थः । एक अद्वितीय । अनुपमेयमित्यर्थः । यद्वा मुख्यमित्यर्थः । 'एके मुख्यान्यकेवलाः' इत्यमरः । प्रसवभवनं उत्पत्तिस्थानम् । 'प्रसवो गर्भमोक्षे स्यावृक्षाणां फलपुष्पयोः। परम्पराप्रसङ्गे च लोकोत्पादे च पुत्रयोः' इति 'भवनं भावसानोः' इति च विश्वलोचने। विद्धि जानीहि । तयोः अशोककेसरयोः एकः रक्ताशोकः । अशोककेसरयोरन्यतरः रक्ताशोकः एवैकशब्देन ग्राह्यः, तस्यैव नारीचरणाघाताभिलाषित्वात् । दोहृदच्छद्मना दोहव्याजेन । दौहृदस्य दोहदस्य छद्म व्याजः दौहृदच्छद्म । तेन। दोहदं वृक्षादीनां पुष्पोत्पत्तिनिमित्त संस्कारकद्रव्यम् । 'तरुगुल्मलतादीनामकाले कुशलैः कृतं । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तक्रिया' इति शब्दार्णवे। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। अस्याः वसुन्धराचर्याः किन्नरकन्यकायाः वामपादाभिलाषी सव्यचरणाभिघाताभिलाषुकः। वामः सव्यश्चासौ पादश्चरणश्च वामपादः । तमभिलपतीत्यभिलाषी । 'शीलेऽजातौ णिन् ' इति णिन् । अन्यः इतरः। केसरः इत्यर्थः । अस्याः वदनमदिरां आस्योपात्तवृष्यरसगण्डूषसेकं काङ्क्षति अभिलषति । स्त्रीवामपादाभ्याघातः अशोपुष्पप्रसवानिमित्तं वृष्यरसगण्ड्पसेकश्च केसरकुसुमप्रभवहेतुरिति कविसमयप्रसिद्धम्। उक्तं च - 'स्त्रीणां स्पर्शात् प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात् । पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गनाभ्याम् ॥ मन्दारो नर्मवाक्यात् पटुमृदुहसनाचम्पको वक्त्रवातात् । चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात् कर्णिकारः ॥' अलकायामशोककेसरवृक्षबाहुल्यसम्भवेऽपि यत्राऽप्रसूतकुसुमौ तौ तदेवास्मदीयमगारमिति शम्बरासुराभिप्रायः ।
You should take those, standing in the garden attached to my house, with their basins formed by my beloved (or wife ) in company with me, ( and ) attended upon by your (former ) associate, (very) dear to you, to be the only source generating (exciting) passion. One ( of the trees referred-to above ), under the pretext of longing, longs for a kick given by her left foot, ( and the other for tho wine in her inouth.
मूलं वोचमनसि निहितं लक्ष्यते त्वद्वियोगा--
त्तस्या साद्याध्यवसितमृतेर्बहीणाधिष्ठिताग्रा । तन्मध्ये च स्फटिकफलका काश्चनी वासयष्टि
द्ले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥ ३० ॥ अन्वयः-तन्मध्ये च [या ] त्वद्वियोगात् तस्याः मनसि अद्य उच्चैः
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org