________________
[पार्धाभ्युदये
touched, rough and irregular, excited [ or pained ] at heart on withdrawing the couple of her eyes turned in the direction of the rays of the moon, cool like nectar, entered through the window-ways in search as if of the beloved relatives approched [ there ], in order to receive them [ i. e. the rays ] out of previous liking for them and turned back strichtway, owing to the eye-lashes being heavy with water [ i.e. tears ] shutting her eyes troubled over and again by fatigue caused by going and coming frequently when the moon would be penetrating her rays through the window-ways.
सा सन्न्यस्ताभरणमबला पेलवं धारयन्ती वीताहारा नयनसलिलैराप्लुतापाण्डुगण्डम् ।
शय्योत्सङ्गे निहितमसकृदुःखदुःखन गात्रं त्वामप्यन्तविचलितधृति तां दशां नेतुमर्हेत् ॥ ५२ ॥
अन्वयः-वीताहारा, सन्न्यस्ताभरणं, पेलवं, नयनसलिलैः आप्लुतापाण्डुगण्डं, दुःखदुःखेन शय्योत्सङ्गे असकृत् निहितं गात्रं धारयन्ती सा अबला अन्तर्विचलितधृति त्वां अपि तां दशां नेतुं अर्हत् ।
सेत्यादि। वीताहारा विनष्टभोजना । विशेषेण इतः नष्टः आहारः भोजनं यस्याः सा वीताहारा । 'आहारो भोजने पुंसि स्यादाहरणहारयोः' इति विश्वलोचने । वियोगजनितदुःखाक्रान्तमनस्कत्वात्त्यक्तान्नादिचतुर्विधाहारेत्यर्थः । सन्न्यस्ताभरणं परिहृतालङ्कारं । अलङ्कारपरिहारोप्यत्र वियोगजनितदुःखनिबन्धनः एव । पेलवं कृशीभूतम् । 'घन निरन्तरं सान्द्रं, पेलवं विरलं तनु' इत्यमरः । नयनसलिलैः नेत्रयुगलगलदस्रजलैः आप्लुतापाण्डुगण्डं आर्द्राकृतेषत्पाण्डुकपोलम् । आ समन्तात्प्लुतौ आर्द्रतां गतौ आपाण्डू ईषत्पाण्डुरिमानौ गण्डौ कपोलौ यस्य तत् । 'गण्डस्तु पिटके योगभेदे खड्गिकपालथाः । वरे प्रवीरे चिह्ने च वाजिभूषणबुबुदे । इति विश्वलोचने । दुःखदुःखेन दुःखप्रकारेण । 'प्रकारे गुणोक्तेर्वा' इति प्रकारेऽर्थे द्विः। शय्योत्सङ्गे शयनतले । शयनोपरीत्यर्थः । असकृत् बहुवारं । शय्यारोहणावरोहणे पूर्वानुभूनरतिस्मृतिनिबन्धने । निहितं स्थापितं गात्रं शरीरम् । ' गात्रं गजाग्रज
वादिविभागेऽप्यङ्गदेहयोः' इति विश्वलोचने । धारयन्ती वहमाना सा अबला सा दुर्बला किन्नरकन्यका वसुन्धराचरी अन्तर्विचलितधृति अन्तःप्रकम्पितधैर्यम् । अन्तः विचलिता प्रकम्पिता धृतिः धैर्य यस्य सः। तम् । 'धृतिर्धारणसन्तुष्टिधैर्ये योगान्तरेड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org