________________
तृतीयः सर्गः]
३३५
रुद्धापाङ्गप्रसरत्वस्य विरहनिमित्तत्वादलकैरितीत्थम्भूतलक्षणे भा । ततोऽलकैरित्यस्यालकैर्लक्षितमिति भावः । सालकमित्यर्थः । अलकानामकृतसंस्कारत्वान्नेत्रप्रदेशे लम्बामानत्वात् सालकत्वम् । 'येनाङ्गविकारेत्थम्भावौ ' इति भा । तत् स्निग्धं बात्सल्यसम्पन्न । प्रेमव्यक्तियुक्तमित्यर्थः । 'स्निग्धो वात्सल्यसम्पन्ने चिक्कणेऽप्यभिधेयवत् ' इति विश्वलोचने । चक्षुः नयनं यत् यतः त्वाय भवति पार्चे निदधती निश्चलीकुर्वन्ती । 'पुरायावतोर्लेट्' इति लट् । तत् ततःसा वसुन्धराचरी किन्नर कन्यका सुदती । सुजाताः दन्ताः अस्याः सा सुदती । 'वयसि दन्तस्य दतृ' इति दन्तस्य दतृ इत्ययमादेशः, वयसो गम्यमानत्वात् । मदाज्ञाकृतः सन्देशहरणविषयिणीं ममाज्ञां कुर्वतः । ममाज्ञा मदाज्ञा । तां करोतीति मदाज्ञाकृत् । तस्य । ते भवतः भूयः दीर्घकालोपभोग्यविरहानन्तरं पुनः प्रीत्यै प्रेम्णे ·आनन्दाय वा भवतु भूयात् ।
May she, with beautiful teeth [i. e. in the prime of her life ], first of all fixing her lovely eyes, with their side-glances prevented by the tresses, devoid of application of collyrium, and moreover having the graceful movement or the amorous play ] of the eyebrows forgotten owing to her renouncement of intoxicating juice, upon you the very moment she would see you, be for the happiness of you (or bring happiness to you ], obeying my order. .
मत्प्रामाण्यादसुनिरसने निश्चितात्मा त्वमेनां
भोक्तुं याया धनदनगरी तत्प्रमाणाय सजे । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाञ्चलकुवलयश्रीतुलामेष्यतीति ॥ ५७ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचिते मेघदूतवेष्टितवेष्टिते श्रीपार्श्वभ्युदये भगवत्कैवल्यवर्णनं (१) नाम तृतीयः सर्गः । . अन्वयः- असुनिरसने निश्चितात्मा त्वं एनां भोक्तुं मत्प्रामाण्यात् धनद. नगरी थायाः; तत्प्रमाणाय सजे त्वयि आसन्ने [ सति] मृगाक्ष्याः उपरिस्पन्दि नयनं मीनक्षोभात् चलकुवलयतुलां एष्यति इति शङ्के ।
मदित्यादि । असुनिरसने स्वप्राणव्यपरोपणे। असूनां प्राणानां निरसनं निरासः व्यपरोपणं असुनिरसनं । तत्र । ' पुंसि भून्यसवः प्राणाः' इत्यमरः । “स्थानिरासे निरसनं वधे निष्ठावने तथा' इति विश्वलोचने । आत्मवधे इत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org