________________
३३६
[पार्धाभ्युदये निश्चितात्मा कृतनिश्चयः । निश्चितः निर्णीतः आत्मा मनः यस्य सः । सनिश्चयमनाः इत्यर्थः । 'आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु' इति विश्वलोचने । त्वं मरुभूतिचरः पार्श्वस्त्वं । एनां वसुन्धराचरौं किन्नरकन्यकां भोक्तुं रत्यनुभूतिविषयतां नेतुं मत्प्रामाण्यात् मद्वचनं प्रमाणीकृत्य । मदुक्तौ विश्वस्येत्यर्थः । मम प्रामाण्यं सत्य वादित्वं मत्प्रामाण्यं । तस्मात् । मत्प्रामाण्यमुररीकृत्येत्यर्थः । ' प्यखेकांधारे ' इति प्यान्तस्य खे कमणि का । 'प्रमाणमेकतेयत्ताहतियन्तृप्रमातृषु । सत्यवादिनि नित्ये च मर्यादाहन्तृशास्त्रयोः' इति विश्वलोचने । धनदनगरी कुबेरराजधानी अलकाख्या । धनदस्य कुबेरस्य नगरी धनदनगरी। ताम् । 'धनदो दातरि श्रीदे' इति विश्वलोचने । यायाः गच्छेः । तत्प्रमाणाय मदुक्तवचनाविसंवादित्वं निर्णेतुम् । तस्य मदुक्तवचनस्थ प्रमाणं तत्प्रमाणं । तस्मै । मदुक्तं प्रमाणयितुमित्यर्थः । 'ध्वर्थवाचोऽर्थात्कर्मणि' इति अप् कर्मणि । सजे उपस्थिते सन्नद्धे वा त्वयि भवति आसन्ने समीपं प्राप्ते सति मृगाक्ष्याः हरिणनयनायाः । ' स्वाङ्गानीचोऽस्फोङः' इति स्त्रियां ङीत्यस्य वैकल्पिकत्वान्न की। मृगस्येवाऽक्षिणी नयने यस्याः सा । तस्याः। उपरिस्पन्दि उपरिष्टभागे तिरश्चीनं परिवर्तमानम् । नयन नेत्रं जातावकवचनत्वान्नेत्रे इत्यर्थः । मीनक्षोभात् शफरकृतोद्वर्तनात् । चलकुवलयश्रीतुला सकम्पोत्पलशोभातुल्यतां । 'चलश्चलाचले कम्पे ' इति ' तुला राशौ पलशते तुल्यतामानभेदयोः। बन्धाथ गृहदारूणां पीठिकायां सभाजने ॥' इति च विश्वलोचने । चलानि च तानि कुवलयानि च चलकुवलयानि । तेषां श्रीः शोभा। तया तुला सादृश्य । ताम्। 'तुल्यार्थी' इति भा। अत्र सादृश्यवाचित्वात्तुलाशब्दस्य तद्योगेऽपि भासः । एण्यति इति गमिष्यतीति शङ्के तर्कयामि।
___ इति श्रीपार्श्वभ्युदये मुक्तेन्दुवर्मविरचितायां बालप्रबोधिन्याख्यायां व्याख्यायां शठकमठकृतभगवदुपसर्गवर्णनं नाम तृतीयः सर्गः ।
You, with your mind determined to dispell [ or destroy ] the soul [ or misery ], should, relying on my truthfulness, visit the city [ capital ] of Kubera to injoy her. I think that the eyes of the fawneyed one, moving sideways in the upper parts when you, ready for convincing yourself of it [ of the statement made by me ), would be near, would attain resemblance to the beauty of blue lotuses, set in motion owing to the disturbance of the fish [i. e. owing to the pretty kettle of the fish ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org